Book Title: Sambodhi 1983 Vol 12
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 288
________________ सर्वेषामपि कर्मणामतितरां मोहो बलीयानसौ धत्त चञ्चलता बिभेति च मृतेस्तस्य प्रभावान्मनः । नो चेज्जीवति को म्रियेत क इह द्रव्यत्वत: सर्वदा । नानात्वं च गतो जिनेन्द्र भवता दृष्ट' पर पर्ययैः ।।१६।। वातव्याप्तसमुद्रवारिलहरीसंघातवत्सर्वदा सर्वत्र क्षणभंगुर जगदिदं सञ्चिन्त्य चेतो मम । सम्प्रत्येतदशेषजन्मजनकव्यापारपारस्थित स्थातु वाञ्छति निर्विकारपरमानन्दे त्वयि ब्रह्मणि ।।१७।। एनः स्याद शुभोपयोगत इतः प्राप्नोति दु:ख जनो धर्मः स्याच्च शुभोपयोगत इत: सौख्यं किमप्याश्रयेत् । द्वन्द्व द्वन्द्वमिदं भवाश्रयतया शुद्धोपयोगात्पुनः नित्यानन्दपदं तदत्र च भवानहन्नह तत्र च ।।१८।। यन्नान्तन बहिः स्थितं न च दिशि स्थूलं न सूक्ष्म पुमान् नैव स्त्री न नपुंसक न गुरुतां प्राप्तं न यल्लाघवम् । कर्मस्पर्शशरीरगन्धगणनाव्याहारवर्णोज्झितः स्वच्छ ज्ञानहगेकमूर्ति तदह ज्योतिः पर नापरम् ।।१९।। एतेनैव चिदुन्नति क्षयकृता कार्य विना वैरिणा शश्वत्कर्म खलेन तिठति कृतं नाथावयोरन्तरम् । एषोऽह सच ते पुरः परिगतो दुष्टोऽत्र निसार्यताम् सद्रक्षेतरनिग्रहो नयवतो धर्मः प्रभारीदृशः ॥२०।। आधिव्याधिजरामृतिप्रभृतयः सम्बन्धिनो वर्मणः तदिभन्नस्य ममात्मनो भगवत किं कर्तुमीशा जडाः । नानाकारविकारकारिण इमे साक्षान्न भोमण्डले तिष्ठन्तोऽपि न कुर्वते जलमुचस्तत्र स्वरूपान्तरम् ॥२१॥ संसारातपदह्यमानवपुषा दुःखं मया स्थीयते नित्यं नाथ यथा स्थलस्थितिमता मत्सेत्स्ये)न ताम्यन् मनः । कारुण्यामृतसङ्गशीतलतरे त्वत्पादपङ्केर हे यावद्देव समर्पयामि हृदयं तावत्पर सौख्यवान् ॥२२।। साक्षग्राममिदं मनो भवति यद्बाह्यार्थ सम्बन्धमाक तत्कर्म प्रतिजम्भते पृथगह तस्मात्सदा सर्वथा । चैतन्यात्तव तत्तथेति यदि वा तत्रापि तत्कारणं शद्वात्मन् मम निश्चयात्पुनरिह त्वय्येव देव स्थितिः ||२३||

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326