________________
सर्वेषामपि कर्मणामतितरां मोहो बलीयानसौ धत्त चञ्चलता बिभेति च मृतेस्तस्य प्रभावान्मनः । नो चेज्जीवति को म्रियेत क इह द्रव्यत्वत: सर्वदा । नानात्वं च गतो जिनेन्द्र भवता दृष्ट' पर पर्ययैः ।।१६।।
वातव्याप्तसमुद्रवारिलहरीसंघातवत्सर्वदा सर्वत्र क्षणभंगुर जगदिदं सञ्चिन्त्य चेतो मम । सम्प्रत्येतदशेषजन्मजनकव्यापारपारस्थित स्थातु वाञ्छति निर्विकारपरमानन्दे त्वयि ब्रह्मणि ।।१७।।
एनः स्याद शुभोपयोगत इतः प्राप्नोति दु:ख जनो धर्मः स्याच्च शुभोपयोगत इत: सौख्यं किमप्याश्रयेत् । द्वन्द्व द्वन्द्वमिदं भवाश्रयतया शुद्धोपयोगात्पुनः नित्यानन्दपदं तदत्र च भवानहन्नह तत्र च ।।१८।।
यन्नान्तन बहिः स्थितं न च दिशि स्थूलं न सूक्ष्म पुमान् नैव स्त्री न नपुंसक न गुरुतां प्राप्तं न यल्लाघवम् । कर्मस्पर्शशरीरगन्धगणनाव्याहारवर्णोज्झितः स्वच्छ ज्ञानहगेकमूर्ति तदह ज्योतिः पर नापरम् ।।१९।। एतेनैव चिदुन्नति क्षयकृता कार्य विना वैरिणा शश्वत्कर्म खलेन तिठति कृतं नाथावयोरन्तरम् । एषोऽह सच ते पुरः परिगतो दुष्टोऽत्र निसार्यताम् सद्रक्षेतरनिग्रहो नयवतो धर्मः प्रभारीदृशः ॥२०।। आधिव्याधिजरामृतिप्रभृतयः सम्बन्धिनो वर्मणः तदिभन्नस्य ममात्मनो भगवत किं कर्तुमीशा जडाः । नानाकारविकारकारिण इमे साक्षान्न भोमण्डले तिष्ठन्तोऽपि न कुर्वते जलमुचस्तत्र स्वरूपान्तरम् ॥२१॥
संसारातपदह्यमानवपुषा दुःखं मया स्थीयते नित्यं नाथ यथा स्थलस्थितिमता मत्सेत्स्ये)न ताम्यन् मनः । कारुण्यामृतसङ्गशीतलतरे त्वत्पादपङ्केर हे यावद्देव समर्पयामि हृदयं तावत्पर सौख्यवान् ॥२२।। साक्षग्राममिदं मनो भवति यद्बाह्यार्थ सम्बन्धमाक तत्कर्म प्रतिजम्भते पृथगह तस्मात्सदा सर्वथा । चैतन्यात्तव तत्तथेति यदि वा तत्रापि तत्कारणं शद्वात्मन् मम निश्चयात्पुनरिह त्वय्येव देव स्थितिः ||२३||