________________
.
आश्रित्य व्यवहारमार्गमथवा मूलोत्तराख्यान् गुणान् साधोरयतो मम स्मृतिपथा प्रस्थापि यद्दूषणम् । शुद्ध्यर्थ तदपि प्रभो तव पुरः सजोऽहभालोचितुम् निःशल्य हृदयं विधेयमजः भव्यैर्यतः सर्वथा ॥९॥
सर्वोऽन्यत्र मुहुर्मुहुर्जिनपते लोकैरसंख्यैर्मित: व्यक्ताव्यक्तविकल्पजालकलितः प्राणी भवेत् संसूतौ । तत्तावद्भिरय मदै(मैं)व निचितो दोर्विकल्पानुगैः प्रायश्चित्तमियत् कुतः श्रुतगतं शुद्धिर्भवत्सन्निवेः(धौ) |॥१०॥
भावान्तःकरणेन्द्रियाणि विधिवत्संहृत्य बायाश्रयान् एकीकृत्य पुनस्त्वया सह शुचिज्ञानकसन्मूर्तिना । निःसङ्गश्रुतसारसङ्गतमतिः शान्तो रहः प्राप्तवान् यस्त्वां देव समीकृते स लभते धन्यो भवत्सन्निधिम् ॥११॥
त्वामासाद्य पुराकृतेन महता पुण्येन पूज्यं प्रभु ब्रह्माद्यैरपि यत्पदं न सुलभ तल्लभ्यते निश्चितम् । अहन्नाथ परं करोमि किमह चेतो भवत्सन्निधौ अद्यापि त्रियमाणमप्यतितरामेतदबहिर्धावति ।।१२।।
संसारो बहुदुःखदः सुखपदं निर्वाणमेतस्कृते त्यक्त्वार्थादितपोवनं वयमितास्तत्रोज्झितः संशयः । एतस्मादपि दुष्करव्रतविधेर्वा( )द्यापि सिद्धिर्यतो वातालीतरलीकृतं दलमिव भ्राम्यत्यदो मानसम् ॥१३॥
झम्पाः कुर्वदितस्तत: परिलसद्वाहत्यार्थलाभादन्नित्यं व्याकुलतां पर गतवतः कार्य विनाप्यात्मनः । ग्राम बासयदै न्द्रिय भवकृतो दूर' सुहृत्कर्मणः क्षेमं तावदिहास्ति कुत्र यमिनो यावन्मनो जीवति ॥१४॥
नूनं मृत्युमुपैति यातममलं त्वां शुद्धबोधात्मक त्वत्तस्तेन बहिर्भवत्यविरतं चेतो विकल्पाकुलम् । स्वामिन् किं क्रियतेऽत्र मोहवशतो मृत्योर्न भोः कस्य तन् सर्वानर्थपर पराकृदहितो मोहः स मे वार्यताम् ॥१५॥
सम्बो . ३