________________
आत्मबोधः
यद्यानन्दनिधिं भवन्तममलं तत्त्वं मनो गाहते त्वन्नामस्मृतिलक्षणो यदि महामन्त्रोऽस्त्यनन्तप्तभः । यानं च त्रितयारमके यदि भवेत माग भवदर्शिते को लोकेऽत्र सतामभीष्टविषये विघ्नो जिनेश प्रभो ।।१।।
निःसनत्यमरागिताथ समता कर्मक्षयो बोधन विश्वव्यापि समं दृशा तदतुलानन्देन वीर्यण च इई हरदेव तवैध संवृतिपरित्यागाय जात कमः शुद्धस्तेन सदा भवच्चरणयो: सेवा सता सम्मता ।।२।। यद्यतस्य दृढा मम स्थितिरभूत त्वत्सेवया निश्चितं त्रैलोक्येश बलीयसोऽपि हि कुतः संभा(सा)रशत्रोभयम् । प्राप्तस्यामृतवर्षहर्ष जनक सच्छत्रधारागृहम् पंसः किं कुरुते शुची खरतरो मध्याह्नकालातपः ।।३।। यः कश्चिन्निपुणो जगत्त्रयगतानर्थानशेषां श्चिरं सारासारविवेचकमनसा मीमांसते निस्तुषम । तस्य त्वं परमेक एव भगवन् सारो ह्यसारं पदं सर्व (तत् ?) भवदाश्रितस्य महती तेनाभवन्नितिः ।।४।। ज्ञानं दर्शनमप्यशेष विषयं सौख्यं तदात्यन्तिक वीर्य व प्रभुता च निर्मलतरा(२)रूपं स्वकीय तव । सम्यग्योगहशा जिनेश्वर चिरात्तेनोपलब्धे त्वयि ज्ञानं किं न विलोकितं न किमथ प्राप्तं न किं योगिभिः ।।५।। स्वामेकं त्रिजगत्पतिं परमह मन्ये जिनस्वामिन त्वामेकं प्रणमामि चेतसि दधे सेवे स्तुवे सर्वदा । स्वामेकं शरणं गतोऽस्मि बहुना प्रोक्तेन किंचिद्भवेत् इत्थं तद्भवतु प्रयोजनमतो नान्येन मे केनचित् ।।६।। पापं कारितवान् यदन कृतवानन्यैः कृतः साध्विति भ्रान्त्याहं प्रतिपन्नवाश्च मनसा वाचा च कायेन च । काले सम्प्रति यच्च भाविनि नवस्थानोदगतं यत्पनः तन्मिथ्याखिलमस्तु मे जिनपते स्व निन्दतस्ते पुरः ।।७।। लोकालोकमनन्तपर्यययुतं कालत्रयीगोचर स्वं जानासि जिनेन्द्र पश्यतितरां शश्वत्समं सर्वतः । स्वामिन् वेरिस मर्मजन्मजनितं दोष न किंचित्कुतो हेतोस्ते पुरतः स वाच्य इति मे शुद्धयर्थमालोचितुम् ।।८।।