________________
कि लोकेन किमाश्रयेण किमुत द्रव्येण कायेन किं किं वाग्भिः कुमुतेन्द्रियैः किमसुभिः किं तर्विकल्पैरपि । सर्वे पुद्गलपर्यया बत परे त्वत्त प्रमत्तो भवन् नात्मन्नेभिरभिश्रयस्यतितरामालेन कि बन्धनम् ।।२४।।
धर्माधर्मनभांसि काल इति मे प्रवाहित कुर्वते चत्वारोऽपि सहायतामुपगतास्तिष्ठन्ति गत्यादिषु । एकः पुद्गल एव सन्निधिगतो नो कर्म कर्माकृति: बैरीबन्धकदेष सम्प्रति मया भेदासिना खण्डितः ।।२५।।
रागद्वेषकृत र्य था परिणमेद्रूपान्तरैः पुद्गलो नाफाशादिचतुष्टय विरहितं मूर्त्या 'तथा' प्राणिनाम । ताभ्यां कर्म नवं भवेदविरतं तस्मादियं संसृति: तस्यां दुःखपरम्परेति विदुषा त्याज्यो प्रयात्नेन ती ॥२६||
किं बाह्येषु परेषु वस्तुषु मन. कृत्वा विकल्पान्बहून् रागद्वेषमयान्मुधैव कुरुषे दुखाय कर्माशुभम् । आनन्दामृतसागरे यदि वसस्यासाद्य शुद्धात्मनि स्फीतं तत्सुखमेकतामुपगतं त्वं यासि रे निश्चितम् ।।२७||
इत्याधाय हृदि स्थिर जिन भवत्पादप्रसादात्सति अध्यात्मकतुलामयं जन इतः शुद्ध्यर्थमारोहति । एनं कतु ममी च दोषिणमिता: कर्मारयो दुर्धराः तिष्ठन्ति प्रसम तदत्र भगवन् मध्यस्थ साक्षी भवान् ।।२८।।
द्वैत' समृतिरेव निश्चयवशाददै तमेवामृत संक्षेपादुभयत्र कल्पितमिदं पर्यन्तकाष्ठागतम् । निर्गत्याद्य पदाच्छनैः शबलितादन्यत्समालम्बते यत्सो संश इति स्फुट व्यवहृते ब्रह्मादिनामेति च ॥२९॥
चारित्रं यदभाणि केवलशा देव त्वया मुक्तये पुसा तखलु मादृशेन विषमे काले कलौ दुर्धरम् । भक्तिर्या समभृदिह त्वयि दृढा पुण्यैः पुरोपार्जितः संसाराण वतारणे जिन ततः सेवास्तु पोतो मम ॥३०।।