________________
इन्द्रत्वं च निगोदतां च बहुधा मध्ये तथा योनयः संसारे भ्रमता चिरं यदखिलाः प्राप्ता मयानन्तशः । तन्नापूर्णमिहास्ति किञ्चिदपि मे हित्वा विमुक्तिप्रदा सम्यदूगर्शनबोधवृत्तपदवीं तां देव पूर्णा' कुरु ॥३ण।
श्रीवीरेण मम प्रसन्नमनसा किञ्चित्तदुच्चैः पदप्राप्त्यर्थ परमोपदेशवचन चित्त समारोपितम् । येनास्तामिदमेकभूतलकृत राज्य क्षणं ध्वंसि यत् त्रैलोक्यस्य च तन्न मे प्रियमिह श्रीमजी | जि ] नेन्द्रप्रभो ॥३२॥
त
सूरेः पङ्कजनन्दिनः कृतिमिमामालोचनामहत्ता अग्ने यः पठति त्रिसन्ध्यममलश्रद्धानताङ्गो नरः । योगीन्द्रश्चिरकालरूढतपसा यत्नेन यन्मृग्यते तत्प्राप्नोति परं पदं स मतिमानान्दसद्म ध्रुवम् ।।३३।।