Book Title: Pratishtha Pujanjali
Author(s): Abhaykumar Shastri
Publisher: Kundkund Kahan Digambar Jain Trust

View full book text
Previous | Next

Page 8
________________ 8 n U प्रतिष्ठा पूजाञ्जलि मंगल पञ्चक ( हरिगीतिका ) गुणरत्नभूषा विगतदूषा : सौम्यभावनिशाकरा: सद्बोध-भानुविभा-विभाषितदिक्चया विदुषांवराः । निःसीमसौख्यसमूह मण्डितयोगखण्डितरतिवराः कुर्वन्तु मङ्गलमत्र ते श्री वीरनाथ जिनेश्वराः ।। १ ।। सद्ध्यानतीक्ष्ण-कृपाणधारा निहतकर्मकदम्बका, देवेन्द्रवृन्दनरेन्दवन्द्याः प्राप्तसुखनिकुरम्बका: । योगीन्द्रयोगनिरूपणीयाः प्राप्तबोधकलापकाः कुर्वन्तु मङ्गलमत्र ते सिद्धाः सदा सुखदायका ॥ २ ॥ आचारपंचकचरणचारणचुंचव: समताधराः नानातपोभरहेतिहापितकर्मकाः सुखिताकराः । गुप्तित्रयीपरिशीलनादिविभूषिता वदतांवरा: कुर्वन्तु मङ्गलमंत्र ते श्री सूरयोऽर्जितशंभराः ॥ ३ ॥ द्रव्यार्थ - भेद- विभिन्न - श्रुतभरपूर्णतत्त्वनिभालिनो, दुर्योगयोगनिरोधदक्षाः सकलवरगुणशालिनः । विज्ञानगौरवशालिनः कर्तव्यदेशनतत्परा कुर्वन्तु मङ्गलमंत्र ते गुरुदेवदीधितिमालिनः ||४|| संयमसमित्यावश्यकापरिहाणि - गुप्ति - विभूषिता: पंचाक्षदान्तिसमुद्यता: समतासुधापरिभूषिताः । भूपृष्ठ विष्टरसायिनो विविधर्द्धिवृन्दविभूषिता कुर्वन्तु मङ्गलमत्र ते मुनयः सदा शमभूषिताः । । ५ । । ******** u

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 240