Book Title: Pramey Kamal Marttand Part 1
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi
View full book text ________________
अथ प्रशस्ति प्रणम्य शिरसा वीरं धर्मतीर्थप्रवर्तकम् । तच्छासनान्वयं किञ्चिद् लिख्यते सुमनोहरम् ॥१॥ नभस्तत्वदिग्वीराब्दे कुन्दकुन्द गणी गुणी । संजातः संघनायको मूलसंघप्रवर्तकः ॥२॥ आम्नाये तस्य संख्याताः विख्याताः सुदिगंबराः । प्राविरासन् जगन्मान्याः जनशासनवर्द्धकाः ॥३॥ क्रमेण तत्र समभूत् सूरिरेकप्रभावकः । शांतिसागर नामा स्यात् मुनिधर्मप्रवर्तकः ॥४॥ वीरसागर प्राचार्यस्तत्पट्टे समलंकृतः । ध्यानाध्ययने रक्तो विरक्तो विषयामिषात् ॥५॥ अथ दिवंगते तस्मिन् शिवसिन्धुर्मुनीश्वरः । चतुर्विधगणः पूज्यः समभूतु गणनायकः ॥६॥ तयोः पार्वे मया लब्धा दीक्षा संसारपारगा। प्राकरी गुणरत्नानां यस्यां कायेऽपि हेयता ॥७॥ [विशेषकम्] प्रशमादिगुणोपेतो धर्मसिन्धुर्मुनीश्वरः ।। प्राचार्यपद मासीनो वीरशासनवर्द्धकः ॥८॥ आर्या ज्ञानमती माता विदुषी मातृवत्सला । न्यायशब्दादिशास्त्रेषु धत्ते नैपुण्य माञ्जसम् ॥६॥ कवित्वादिगुणोपेता प्रमुखा हितशासिका । गर्भाधानक्रियाहीना मातैव मम निश्छला ॥१०॥ नाम्ना जिनमती चाहं शुभमत्यानुप्रेरिता । यया कृतोऽनुवादोयं चिरं नन्द्यात महीतले ॥११॥
इति भद्र भूयात् सर्व भव्यानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720