SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्ति प्रणम्य शिरसा वीरं धर्मतीर्थप्रवर्तकम् । तच्छासनान्वयं किञ्चिद् लिख्यते सुमनोहरम् ॥१॥ नभस्तत्वदिग्वीराब्दे कुन्दकुन्द गणी गुणी । संजातः संघनायको मूलसंघप्रवर्तकः ॥२॥ आम्नाये तस्य संख्याताः विख्याताः सुदिगंबराः । प्राविरासन् जगन्मान्याः जनशासनवर्द्धकाः ॥३॥ क्रमेण तत्र समभूत् सूरिरेकप्रभावकः । शांतिसागर नामा स्यात् मुनिधर्मप्रवर्तकः ॥४॥ वीरसागर प्राचार्यस्तत्पट्टे समलंकृतः । ध्यानाध्ययने रक्तो विरक्तो विषयामिषात् ॥५॥ अथ दिवंगते तस्मिन् शिवसिन्धुर्मुनीश्वरः । चतुर्विधगणः पूज्यः समभूतु गणनायकः ॥६॥ तयोः पार्वे मया लब्धा दीक्षा संसारपारगा। प्राकरी गुणरत्नानां यस्यां कायेऽपि हेयता ॥७॥ [विशेषकम्] प्रशमादिगुणोपेतो धर्मसिन्धुर्मुनीश्वरः ।। प्राचार्यपद मासीनो वीरशासनवर्द्धकः ॥८॥ आर्या ज्ञानमती माता विदुषी मातृवत्सला । न्यायशब्दादिशास्त्रेषु धत्ते नैपुण्य माञ्जसम् ॥६॥ कवित्वादिगुणोपेता प्रमुखा हितशासिका । गर्भाधानक्रियाहीना मातैव मम निश्छला ॥१०॥ नाम्ना जिनमती चाहं शुभमत्यानुप्रेरिता । यया कृतोऽनुवादोयं चिरं नन्द्यात महीतले ॥११॥ इति भद्र भूयात् सर्व भव्यानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001276
Book TitlePramey Kamal Marttand Part 1
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year1972
Total Pages720
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy