Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 730
________________ 666 Prakrit Verses in Sanskrit Works on Poetics ड 14.45. यस्य ['तुङ्गतटेभ्य: सशब्दं पतद्भिः निर्झरः मुखरान्' - कृष्णविप्र] 'कृष्णमणिमयानां गण्डशैलानामर्धान्तान्सेवमानानामाश्रितानां त्रिदशवधूनामनुरागो मनोऽभिनवेश: शिथिलत्वं न प्राप्त:' इत्यग्रिमस्कन्धके योजना । 25.47. घनसमय: कीदृश: । व्यवसाय: सीताप्रत्युद्धारहेतुर्व्यापार: स एव रविः । असंपद्यमानत्वेन संतापकत्वात् । तस्य प्रदोषस्तिरोधानकाल: । एवं रोष एव गजेन्द्र : । परोपमर्दकत्वात् । तस्य दृढ-शृङ्खलया प्रतिबन्धो बन्धनं तद्रूप: । प्रसरणप्रतिबन्धकत्वात् । तथा जय एव केसरी । प्रतिपक्षशून्यत्वात् । तस्य पञ्जरो बन्धनस्थानम् । अवरोधकत्वादित्यर्थ: । रूपकमत्रालंकारः । 34.49. व्यवसायरविप्रदोष: | Vide SP S.No. (25.47) supra. 82.57. अथ रामावस्थामाह - अभिज्ञानं संदेशो मणिरूप: । दयितं प्रीतिपात्रम् । दयिताया इति वा । तद्राघवेण यस्मिन्नप्यनेन न निवेशितं तेनाप्यनेन सीतया परि सर्वतोभावेन मृष्टेनेव न तु स्पृष्टमात्रेण निरन्तरं रोमाञ्चौ व्यूढः । तथा च यथा सीतापरिमृष्टेनाङ्गेन रोमाञ्चो ध्रियते तथा मणिस्पृष्टेनाप्यनेन विशेषत ऊढ: । सीतासम्बन्धिमणिसंबन्धादिति भावः । तथा च नित्यसंनिहितसीतास्पर्शापेक्षया विरहकालीनसीतापरम्परासंबन्धोऽप्याधिक इति तात्पर्यम् । 85.58. अपिर्विरोधाभाससूचनाय । तथा च लक्ष्म्याश्चिरनिर्गतत्वादसंबन्धेन प्रसज्यमानो विरोध: । श्रीशब्दश्लेषण शोभया अमुच्यमानत्वेन परिहियते ।--- उभयसाधारणीमुपमामाह - कया कमिव । ज्योत्स्नया मृगाङ्कमिव । कीर्त्या सुपुरुषमिव । प्रभया रविमिव । महानद्या शैलमिव । [श्रिया चिरनिर्गतयाप्युमुच्यमानमद्यापि तथैव रत्नसंपत्तेरविच्छेददर्शनादिति भाव :'। - सेतुतत्त्वचन्द्रिका (२-१०, पृ. ३५)] 157.74. अयं बालो दुर्दमशत्रुसंमुखगमनाय सोत्साहो न वेति प्रथममतिसंनिहितसंबन्धिन: प्रियतमस्य लक्ष्मणस्य मुखमस्य रामस्य दृष्टि: शोभेव लग्ना । यथा शोभा लग्ना तथेत्यर्थ : । तथा च लक्ष्मणमुखं तदानीमतिसश्रीकमासीदिति भाव: । एवमचिरादेवामुष्योपकार: कृत: स तूरसि वर्तते न वेति निरूपणाय तत्पश्चादुदासीनप्रियतरस्य सुग्रीवस्य विकटं विस्तारशालिहृदयं यथा वनमाला लग्ना तथेयमपीत्यर्थः । रक्तनीलश्वेताकारत्वान्मालासाम्यम् । सुग्रीवस्य माला स्वाभाविकमलंकरणमिति प्रसिद्धिः । अयमिदानीमेव लङ्कात: समागतो राक्षसबलाबलज्ञो मद्गमने साध्यवसायो न वेति जिज्ञासया शरीरचेष्टया क्षोभाक्षोभनिरूपणाय तत्पश्चात्प्रियं पवनसुतं यथा समुद्रलङ्घनादिकीर्तिर्लग्ना तथेयमपि । एत एव संप्रति सहायास्तदमीषां चेष्टा कीदृशीति ततोऽपि पश्चात्परिवारतापन्नानि वानरबलानि । यथा तत्क्षण एव सुग्रीवद्वारा कृता लड़कागमनाज्ञा लग्ना तथेयमपि दृष्टिलग्नेति सर्वत्र . सहोपमा । --- परमार्थतस्तु पर्वोक्ततत्तदभिप्रायेणैव तत्र तत्र लग्ना दृष्टिर्यथासंख्यं शोभादित्वेनोपत्प्रेक्षिता । तथा हि प्रथमं लक्ष्मणमखं रामदृष्टि: शोभेव लग्ना । दृष्टिरेव तत्र शोभाभूदित्यर्थः । एवं सुग्रीवहृदयं वनमालेव पवनतनयं कीर्तिरिवाज्ञेव बलानीत्युन्नयाम: ।

Loading...

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768