Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 732
________________ 668 Prakrit Verses in Sanskrit Works on Poetics विरलास्त्रिचतुरा एव । भवन्तस्तूक्तिमपेक्षमाणा: कापुरुषा इति भावः । अर्थान्तरं न्यस्यति - अज्ञात: कुसुमनिर्गमो येषां तथाविधा ये द्रमा: फलं ददति तेऽपि वनस्पतय: स्तोका एव । तथा च द्रुमप्राया: सत्पुरुषा: कुसुमनिर्गमप्रायाणि वचनानि फलप्रायं कार्यमिति । 181.79. स विभीषण: सुग्रीवेण मारुतेर्हनमुत्तो लब्धो य: प्रत्ययो रावणात् पृथग्भूत: स्वीयोऽयमिति । विश्वासस्तेनागतहर्ष यथा स्यादेवमुपगूढ आलिङ्गितः | शत्रुगृहभेदेन कार्यसिद्धिनिर्णयादिति भावः । उर:स्थलवनमालायां मिथो वपुर्मिलनान्मृदिता: पीडिता मधुकरा यत्र तद्यथा स्यादित्यपि क्रियाविशेषणम् । विभीषण: किंभूतः । व्यवसितेनागमनेन निवेदितोऽर्थ: प्रयोजनं येन । 182.79. जनकसुता पतिता च । भूमावित्यर्थात् । केवलं मोहमेव गतेति न, किं तु पतितापीति चार्थ: । किंभूता । हस्तेन शिथिलितो निरोधो यत्र तथाभूत:, पश्चाद्विरहेण करतलयन्त्रणापसारितरुधिरत्वेन वा पाण्डुर: सन् समुच्छ्वसन् यन्त्रितमांसोत्फुल्लतया पुष्टिं व्रजन् कपोलो यस्यास्तथाविधा । ज्ञानदशायां करावरुद्ध: कपोलस्थितो मूर्छायां कर: शिथिलीभूय बहि:स्खलित इत्यर्थः । एवम् - प्रेरितेन वामपाइँन पतितत्वाद् वामभुजयन्त्रणया तिर्यगुत्थापितेन वामपयोधरेण विषमोन्नत: स्वानुसारेण तिर्यगुत्थापितो दक्षिण: स्तनो यस्याः । तथा च कुचयो : काठिन्यमुक्तम् । 194.82. [ पद्यमिदं रामदासविरचिते रामसेतुप्रदीपे न संगृहीतम् । सेतुतत्त्वचन्द्रिकाख्यव्याख्यायां तु समाविष्टमुपलभ्यते - जनकतनयापयोधरस्पर्शान्महार्धितेन करतलेन विमुक्ता राघवशरा दशकन्धरस्य शरीरे पतिता: पतन्तो वा पुलकं जनयन्ति । अत्र तादृशकरण मुक्तत्वमेव हेतु: । पद्यमिदं साहसाङ्क-कुलनाथाभ्यां न धृतम् । ] 199.83. तं प्रसिद्ध दशमुखवधं शृणुत । -- प्रसिद्धार्थकत्वेन तच्छब्दस्य न यच्छब्दापेक्षा । तं कथंभूतम् । त्रिदशबन्दीनां मोक्ष: परित्यागो यस्मात् । समस्तत्रैलोक्यस्य हृदयस्थशल्यानामुद्धारश्च यस्मात् । अनुरागस्य प्रेम्णश्चिह्न ज्ञापकं च यत् । सीतां प्रति रामानुरागस्य रावणवधावधिकत्वात् । सीताया दु:खस्य क्षयश्च येन तथाभूतम् । रावणवधानन्तरं बन्दीकृतदेवस्त्रीणां परित्यागो लोकानां च राबणभयेनाप्रकाशनाद् हृदयस्थानां च शल्यानामुद्धार: सीताया अशोकवनिकानिवासादि- केशनिवृत्तिरित्यर्थः । अथ च दशमुखवधनामानं ग्रन्थं शृणुत । -- किंभूतम् । त्रिदशबन्दीनां मोक्षो वर्णितो यत्र तथाभूतम् । अनुरागचिह्नमित्यनुरागपदचिहनितम् । प्रत्याश्वासकान्तस्कन्धकेऽनुरागपदसत्त्वादिति भावः ।। 200.83. काव्यानामालापा येन न हरन्ति न मनोहारिणो भवन्ति किं तत् । अपि तु न किमपीत्यर्थः । तदाह - यत: काव्याद्विज्ञानं विशिष्टज्ञानं वर्धते । तथा यश: संभाव्यते । गुणा विवेकादयोऽय॑न्ते । सुपुरुषस्य रामादेश्वरितं श्रूयते । अत एतस्योपादेयत्वम् । -- परिवर्घात इति वा । 'अर्जेविढप्पि:' इति विढप्पिरादेश: । 213.86. समुद्रदर्शनत्रस्ता: कपिनिवहा: सहसा समुद्रं दृष्ट्वैव लिखिताश्चित्रन्यस्ता इव स्थिताः । त्रासाद्भुतयोरुत्पत्त्या जडीमावादिति भाव: | ----- आक्षिप्तानि ---- पारावारदर्शनायोत्तोलितानि अथापसृतानि अहो

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768