Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 738
________________ 674 Prakrit Verses in Sanskrit Works on Poetics स्थित:, किन्तु गतेन जीवितेन निश्चेष्टा । यद्वा - गतजीवितं मृतकशरीरं तदन्निश्चेष्टा सती सा सीता केवलं स्तनयोभरण महीतलं गता |--- 1375.293. अलकैविकीर्णतया श्यामत्वेनान्धकारीकृतं मुखं यस्याः, तथा संमुखागत: सन् कण्ठे भ्रमितो वेणीबन्धो यस्याः, इतस्तत: संचारात्। सा सीता मोहेन प्रतिपन्नमाक्रान्तं हृदयं यस्यास्तथा सती ईषज्जल्पितेनापि निःसहं कण्ठादिशोषादसामर्थ्य यथा तथा निषण्णा पुनरपि मह्यां निपतितेत्यर्थः। नि:संज्ञा वासीदित्यर्थः। 1376.293. तस्या मुखं जातम् । कीदृशम् । क्षणं व्याप्य निश्चलो निश्वासो यत्र, मूर्छया प्राणवायोरवरोधात् । एवम्-मोहो ज्ञानाभावस्तद्रूपेणान्धकारेण श्यामा छाया कान्तिर्यस्य, प्रसादाभावात् । एवम्-विरलमल्पं मिलिते किंचिन्मुद्रिते अक्षिपत्रे पक्ष्मणी यत्र तथाभूतं सन् मूर्च्छया ह्रियमाणे परावर्तिते तारके दृष्टिगोलके यत्र तादृशम् । मूर्छापूर्वावस्था मोह:। यद्वा मोहोऽज्ञानमात्रम्, मूर्छा तु मनोविक्षोभविशेष इति भेदः। 1377.294. मूर्छामुद्रिताक्ष्या जनकपुत्र्या तदानीं केवलं सुखं लब्धम् । ज्ञाने सति दुःखमात्रानुभवादज्ञाने दुःखाभाव एव तदिति भावः। सुखं कीदृक्। विस्मृतवियोगदुःखम् । एवम्-तत्क्षणे प्रभ्रष्ट: प्रस्मृतो रामस्य मरणेनायास:पीडा --- यत्र तत् । 1378.294. स्तनयो: परिणाहेन विशालतयावस्थगिते व्याप्ते तस्या हृदये प्रतनुकमल्पमपि न दृष्टम् । --- (तस्या) दीर्घ महदपि समुच्छ्वसितं नि:श्वास: केवलमधरोष्ठे वेपनशीले कम्पिते सति सूच्यते । वासं विना कथमधरोष्ठकम्प इति परं तर्यंत इत्यर्थः। --- 1379.294. तत: श्वासपरावृत्त्यनन्तरं न परि सर्वतोभावेन स्फुटो व्यक्तो निश्वासो यस्यास्तथाविधातर्यमाणनिश्वासा सा मूर्छाविरामेऽपि नि:सहं निश्चेष्टं यथा स्यादेवं पतिता सत्युन्मीलिता चक्षुरुन्मुद्रणं चकारेत्यर्थः। अनुबद्धेन ज्ञाने सति तदानीमुत्पन्नेन बाष्पेणाश्रुबिन्दुगुरूकृते यन्त्रिते अत एव दुःखेन समुद्व्यूढे उत्तानिते तारके गोलके यत्र तद्यथा स्यादित्युन्मीलनक्रियाविशेषणम् । 1380.294. इत्यनेन प्रकारेण त्रिजटाकृतं यद् रामप्रेमकीर्तनं तदेव दुःखहेतुत्वाद्दुःसहो यो वज्राभिघातस्तेन दुःखितहृदया सती सीता संस्मृत्य पूर्वप्रेमव्यवहारमित्यर्थात् । मुक्तकण्ठमुचैर्यथा स्यादेवं मरणे कृतनिश्चयाप्यन्यमयं पूर्वरोदनापेक्षयापि शृङ्गारात्मकत्वेन विलक्षणं यथा भवत्येवं प्ररुदिता । यथा यथा मृतस्यानुबन्धस्मरणं तथा तथा रोदनाधिक्यं भवतीति भावः। 1381.294. रामशिरोदर्शनानन्तरं जनकसुता परिदेवितुं विलपितुं प्रवृत्ता। निजकशरीरे प्रतिमुक्तं करप्रहारादिना संक्रमितं राघवदुःखं यत्रेति क्रियाविशेषणम् । किंभूता । करमार्गेण प्रहारद्वारा कर-रूपेण वर्त्मना । यद्वा-करप्रहारस्थानेनोत्थितं यच्छोणितं तेन विवर्णी श्यामताम्रीकृतौ पयोधरौ यस्या इति मार्दवमुक्तम् । 1382.295. ततोऽश्रुत्यागानन्तरं जनकसुता जल्पितुं प्रवृत्ता । अकस्मादुत्थितं समुच्छ्वसितं प्राणवायुर्यस्या: सा पुनरागतप्राणा सतीत्यर्थः। त्रिजटावक्षःस्थलादुत्थिता सती समुच्छ्वसिता कृतोच्छ्वासा इति वा । पुनः

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768