________________
674
Prakrit Verses in Sanskrit Works on Poetics स्थित:, किन्तु गतेन जीवितेन निश्चेष्टा । यद्वा - गतजीवितं मृतकशरीरं तदन्निश्चेष्टा सती सा सीता केवलं स्तनयोभरण महीतलं गता |---
1375.293. अलकैविकीर्णतया श्यामत्वेनान्धकारीकृतं मुखं यस्याः, तथा संमुखागत: सन् कण्ठे भ्रमितो वेणीबन्धो
यस्याः, इतस्तत: संचारात्। सा सीता मोहेन प्रतिपन्नमाक्रान्तं हृदयं यस्यास्तथा सती ईषज्जल्पितेनापि
निःसहं कण्ठादिशोषादसामर्थ्य यथा तथा निषण्णा पुनरपि मह्यां निपतितेत्यर्थः। नि:संज्ञा वासीदित्यर्थः। 1376.293. तस्या मुखं जातम् । कीदृशम् । क्षणं व्याप्य निश्चलो निश्वासो यत्र, मूर्छया प्राणवायोरवरोधात् । एवम्-मोहो
ज्ञानाभावस्तद्रूपेणान्धकारेण श्यामा छाया कान्तिर्यस्य, प्रसादाभावात् । एवम्-विरलमल्पं मिलिते किंचिन्मुद्रिते अक्षिपत्रे पक्ष्मणी यत्र तथाभूतं सन् मूर्च्छया ह्रियमाणे परावर्तिते तारके दृष्टिगोलके यत्र
तादृशम् । मूर्छापूर्वावस्था मोह:। यद्वा मोहोऽज्ञानमात्रम्, मूर्छा तु मनोविक्षोभविशेष इति भेदः। 1377.294. मूर्छामुद्रिताक्ष्या जनकपुत्र्या तदानीं केवलं सुखं लब्धम् । ज्ञाने सति दुःखमात्रानुभवादज्ञाने दुःखाभाव
एव तदिति भावः। सुखं कीदृक्। विस्मृतवियोगदुःखम् । एवम्-तत्क्षणे प्रभ्रष्ट: प्रस्मृतो रामस्य मरणेनायास:पीडा --- यत्र तत् ।
1378.294. स्तनयो: परिणाहेन विशालतयावस्थगिते व्याप्ते तस्या हृदये प्रतनुकमल्पमपि न दृष्टम् । --- (तस्या)
दीर्घ महदपि समुच्छ्वसितं नि:श्वास: केवलमधरोष्ठे वेपनशीले कम्पिते सति सूच्यते । वासं विना कथमधरोष्ठकम्प इति परं तर्यंत इत्यर्थः। ---
1379.294. तत: श्वासपरावृत्त्यनन्तरं न परि सर्वतोभावेन स्फुटो व्यक्तो निश्वासो यस्यास्तथाविधातर्यमाणनिश्वासा
सा मूर्छाविरामेऽपि नि:सहं निश्चेष्टं यथा स्यादेवं पतिता सत्युन्मीलिता चक्षुरुन्मुद्रणं चकारेत्यर्थः। अनुबद्धेन ज्ञाने सति तदानीमुत्पन्नेन बाष्पेणाश्रुबिन्दुगुरूकृते यन्त्रिते अत एव दुःखेन समुद्व्यूढे उत्तानिते तारके गोलके यत्र तद्यथा स्यादित्युन्मीलनक्रियाविशेषणम् ।
1380.294. इत्यनेन प्रकारेण त्रिजटाकृतं यद् रामप्रेमकीर्तनं तदेव दुःखहेतुत्वाद्दुःसहो यो वज्राभिघातस्तेन दुःखितहृदया
सती सीता संस्मृत्य पूर्वप्रेमव्यवहारमित्यर्थात् । मुक्तकण्ठमुचैर्यथा स्यादेवं मरणे कृतनिश्चयाप्यन्यमयं पूर्वरोदनापेक्षयापि शृङ्गारात्मकत्वेन विलक्षणं यथा भवत्येवं प्ररुदिता । यथा यथा मृतस्यानुबन्धस्मरणं तथा तथा रोदनाधिक्यं भवतीति भावः।
1381.294. रामशिरोदर्शनानन्तरं जनकसुता परिदेवितुं विलपितुं प्रवृत्ता। निजकशरीरे प्रतिमुक्तं करप्रहारादिना संक्रमितं
राघवदुःखं यत्रेति क्रियाविशेषणम् । किंभूता । करमार्गेण प्रहारद्वारा कर-रूपेण वर्त्मना । यद्वा-करप्रहारस्थानेनोत्थितं यच्छोणितं तेन विवर्णी श्यामताम्रीकृतौ पयोधरौ यस्या इति मार्दवमुक्तम् ।
1382.295. ततोऽश्रुत्यागानन्तरं जनकसुता जल्पितुं प्रवृत्ता । अकस्मादुत्थितं समुच्छ्वसितं प्राणवायुर्यस्या: सा
पुनरागतप्राणा सतीत्यर्थः। त्रिजटावक्षःस्थलादुत्थिता सती समुच्छ्वसिता कृतोच्छ्वासा इति वा । पुनः