________________
Prakrit Verses in Sanskrit Works on Poetics
673 च मृगाकोदयेन स्वभावत: समुद्रवृद्धिर्मादकत्वेन रामस्य कामवृद्धिरित्युभयथापि वेदनानुभवादुज्जागरेण रजनिवृद्धिराभासत इत्यर्थः । --
1301.281. सीताविरहविधुरेण रामेण वर्षौ सीतामुद्धत्य पुनर्द्रक्ष्यामीति प्रत्याशया कथंकथमपि धैर्यमवलम्ब्य
कदम्बवाता गमिता:। दुःखैकहेतवोऽप्यतिवाहिता:। मेघान्धकारितं गगनतलं च दृष्टम् । न तु चक्षुःसुखहेतुत्वेनावसितम् । गर्जितशब्दश्च सोढो न तु श्रुतिसुखमधिगतम् इति यद्यपि तथाप्यस्य रामस्य शरदि कथं कुमुदवनवाता गमयितव्याः कथं च शरचन्द्रिकाधवलं नभो द्रष्टव्यं कथं वा कलहंसध्वनि: सोढव्य इति त्वक्चक्षुःश्रवणव्यापारेण वैकुव्यशङ्कया पुनर्जीवितव्यं मयेत्यध्यवसायो नाभूदिति भाव इति संप्रदाय:I---
1312.283 : Vide SP S.No. (174.77) supra.
1364.291. शिरसि दूरादालोकिते सति सीता विषण्णा विषादमुपगता | कस्यैतदिति कृत्वा इत्यर्थः। अथ
रजनीचरैरुपनीयमाने निकटं प्राप्यमाणे सति वेपितमारब्धा । ममैव निकटं यदानयन्ति तत्प्रायो रामस्यैव भवेदिति कृत्वा कम्पवती बभूवेत्यर्थः। पश्चात्तैरेव रामशिर इति भणिते सति नि:संदेहा सती मोहमेव मूच्छामेव गता । न तु मृत्युमपि । सीताजीविताभिन्नरामजीवितस्य विद्यमानत्वादिति भावः।
1370.292. --- जनकसुता पतिता 'भूमौ' इत्यर्थात् । भूमावपि निपत्यात्मानं व्यापादयामीत्याशयात् । किंभूता ।
प्रसारितमड्गं यया तादृशी । क्वचिदप्यङ्गे मृत्युहेतुरभिघातो जायतामितीच्छयेति भावः। एवं रजोभृतो धूलिपूर्ण उत्पथप्रकीर्ण: पृष्ठमपहाय यत्र कुत्रचिद् विपर्यस्तो वेणीबन्धो यस्याः। एवम् उर:संदानितेनाधोमुखपतनादुरसावष्टब्धेन महीतलेन चक्रितौ यन्त्रणावशाचक्रवन्मण्डलाकृतीकृतौ स्तनौ यस्या: सा । एतेन स्तनयोरुन्नतकठिनत्वमुक्तम् ।
1371.292. Vide SP S.No. (182.79) supra.
1372.293. परलोकगते त्वयि व्यवसायमात्रेणानुमरणादिना सुखद्रष्टव्ये जाते सति हर्षस्थानेऽपि भवदर्शने संप्रति
ममापत्तिर्जातत्यानन्दस्थानेऽपि न दृष्टो दशमुखवधो येन तथाभूतं मम हृदयं दह्यते भवदपकर्ताहतो न दृष्ट इत्येव परं विषादबीजमिति वीरपत्नीत्वमुक्तम् ।।
1373.293. तया बाष्पविमोक्षो न कृत:, रामशिरो निवर्णयितुं विशेषेण द्रष्टुमपि न शकितम् । केवलं प्रतिपन्न: स्वीकृतो
मोहो यया तथाभूता सती गतजीवितो मृतस्तद्वन्नि:सहा निश्चेष्टा सा मह्यां निषण्णा लिखितेव स्थिताभूदित्यर्थः। रोदनदर्शनादीनां ज्ञानसाध्यत्वेन तदानीं प्रसह्य मोहोदयात्तत्किमपि न वृत्तमिति "भाव:।---
1374.293. सीताया दृष्टिस्तथैव नियोजिता, यथा पूर्वं शिरसि नियोजितासीत्, पुनदर्शनान्तरमपि तथैव स्थितेत्यर्थः।
एवं मुक्त: कपोलो येन तथाभूत: सन् विधुरो विह्वलो हस्तो यथा पूर्वमुरसि स्थित:, तदानीमपि तथैव