________________
672
Prakrit Verses in Sanskrit Works on Poetics
दुन्वतीमुपतापयन्तीमपि तामेव कथां कामिनीसार्थो बहुशो निवर्तयति रसनिर्भरत्वात् परुषरूपामपि 'दूति, स मां प्रति किमुक्तवान्, किं वा करिष्यति मया किंचिदत्र न श्रुतम्, किंचिदत्र न बुद्धम्' इत्यादि व्याजेन शतधा परावर्त्य शृणोतीत्यर्थ: ।
951.221. प्रथममानीत: प्रियतमो यस्य तादृशो विलासिनीसार्थो दूतीभिरित्यनेन प्रकारेण तुल्यते (?) । किं वदति
किं वा चेष्टत इत्यादिहृदयनिरूपणाय पूर्वमानीतस्यापि प्रियस्य संगोपनादुपहस्यत इत्यर्थ: । इति कथमित्यत आह - हे सखि, धैर्यमवलम्ब्यताम । सः । तव प्रिय इत्यर्थात । उदतेऽपि प्रदोषे इह न च एष्यति । तथा च त्वयैव तत्र गम्यताम् । तेन यत् स्यात् तत्स्यादित्यर्थः । अथ च सत्यमेवोक्तम् त्वया धैर्यमवलम्ब्यताम् । स इह प्रदोषे नैष्यति, किं तु संप्रत्येवागत इति च्छलोक्तिः ।"
975.225. पत्युर्माहात्म्ये ---- Vide SP S.No. (520.148) supra. 987.226. निजानां कामिनीनां समुल्लापान् कथं कथमपि कष्टसृष्टयानुरूपव्याजाभावाद् वैलक्ष्यमप्रतिभा तया हसितै
रावणो गमयत्यतिवाहयति । वञ्चयतीति यावत् ।। कीदृशान् । ईीया सीतागुणासहिष्णुतया यो मत्सरोऽमर्षः तेन गुरुकानप्रतिक्षेप्यान् । एवम् - अधिक्षेपस्तर्जनासंवलिता निन्दा तत्सहित: परिवर्धित उपालम्भोऽपकारोक्तिर्यत्र तान् । तथा च --- सापराधत्वादाहार्यहास्येनैता: (कामिनी:) प्रसादयतीत्यर्थः ।
1027.233. मानवतीनां हृदये रोषश्चिरेण प्रशाम्यति । किंभूते । अनुनयः प्रसादनं तत्क्षणे लब्धं सुखं येन । ---
पुनरपि संभृतेन (संस्मृतेन ?) मन्युनापराधेन दुःखिते अत एव विह्वले व्याकुलीभूते । रोष: कीदृक् । प्रणयेन गुरुकोऽनुन्मूलनीय: । तथा च - यथा यथा प्रणयाधिक्यं तथा तथापराधे सति कोपाधिक्यमित्यनुनयेन प्रसोदोन्मुखमपि हृदयं मन्युबीजस्मरणेन निवर्तत इति चिरकालेन प्रसादो भवतीति भाव: ।
1257.273. चत्वारो यामा: प्रहरचतुष्टयं तन्मात्रेणान्तरितं सीतावियोगदुःखं विषहमानस्य । प्रातस्तद्दुःखोपशमादिति
भाव: । रघुपतेर्दी? बहुतरश्च कालो गत: । सैका निशा परं न गता न गतैव । संनिहितसीतासमागमोत्कण्ठयातिवाहयितुं दु:सहा बभूवेत्यर्थः । कीदृशी । न समातीव बहुतरकालेनापि न तुल्या तावत्समयजन्यविरहदु:खापेक्षया तद्रात्रिजन्यतःखाधिक्यादियमेवाधिकेत्यर्थ: । ---
1273.276. बाष्पैरश्रुभिः स्तिमितत्वाद्गुरूकृतैः, अत एव दूरं व्याप्य प्रलम्बैरलकैरवस्मृतेनाच्छादितेन हस्तेन मुखं
वहन्तीम् । मुखं हस्ते कृत्वा तिष्ठन्तीमित्यर्थः । --- तथा च मणेरिन्द्रनीलत्वेन तत्प्रभावृतैकपार्वत्वमुत्प्रेक्ष्यमाणमलकेषु नीलतया तत्प्रभात्वमवगमयतीति निरवद्यम् ।
1299.281. अथ विभीषणाभिषेकोत्तरं सीताविरहेण विधुरं केशो यस्य तस्य रामस्य निशापि वर्धितुमारब्धा इति
ज्ञायते । कस्मिन् सति । जलनिधौ मदने चाधिकं यथा स्यादेवं विज़म्भमाणे वर्धमाने सति । तथा