________________
Prakrit Verses in Sanskrit Works on Poetics
671 तेनावहित्था सूचिता । 'भयगौरवलज्जादेहर्षाद्याकारगुप्तिरवहित्था । व्यापारान्तरशक्त्यन्यथा (भा) वभाषणविलोकनादिकरी ॥'
567.156. प्रत्यूषरतं प्रदोषरताद् दूरेणाभ्यधिकं प्राथमिकादपि प्रदोषरताद रसनीयतयातिश्लाघनीयं जातमित्यर्थः ।
तदेवाह - कीदृक् । विश्रम्भेण प्रत्यासत्या वर्धितो रस: संभोगरूप: शृङ्गारो मन:प्रीतिर्वा यत्र । द्वितीयरते विश्रम्भेण लज्जाविराहादुत्कण्ठाया यथावदभिव्यज्जनात् । न तु प्रथमरत इति भाव: । अतिरागेणात्यनुबन्धेनात्यासङ्गेन वा स्खलितापगता शेषेणैकदेशेन संस्थिता रसना यत्र । शेषसंस्थिता अपि रसना अतिरागेण स्खलिता इत्यर्थः । --- एवं च विगलितमदत्वेन हेतुना निपुणं चतुरं ज्ञानपूर्वकतयालिड्गनचुम्बनादिव्यापारवैशिष्ट्यविशिष्टमित्यर्थः । प्रथमरते तु मदसत्त्वेन रसविशेषमग्नचित्ततया तादृशनैपुण्याभावादिति भाव : | ---
619.165. स्त्रीणां पति / प्रिय - प्राप्त्या प्रदोषो निशाद्यभागो दत्तफलो जात: । असति पति / प्रिय - समागमे
दूतीगतागतेन तचर्चया सति च तद्दर्शनादिनापूर्वरसोत्पत्तेरिति भाव : । तदुत्तरमालिड्गनचुम्बनादिना रतिसुखेन निशापि दत्तफला । जातेत्यर्थात् । आनीता विरहादुत्कण्ठा येन । अत एव अनिर्विण्णोऽनिर्वाण उद्दीप्तो वा मन्मथो यत्र तथाभूत: सन् प्रत्यूष: परं गलति गच्छति । प्रियविश्लेषशङ्कया रसविच्छेदकत्वेन हृदये न लगतीत्यर्थ: ।
621.166. 'नु'शब्दो वितर्के । चन्द्रोद्योतेन मद: किं वर्धितप्रसरो वृत्त: । मदेन किं चन्द्रातपोवर्धितप्रसरः । द्वाभ्यामपि
ताभ्यां चन्द्रोद्योतमदाभ्यां मदन: किं वर्धितप्रसरः । मदनेन च द्वावपि तौ चन्द्रोद्योतमदौ किमतिभूमिमुत्कर्षकाष्ठां नीतौ । ---
942.219. युवतीभितीजन: ससंभ्रमं सादरमध्याप्यते शिक्ष्यते । किं कृत्वा ।
ईषद्रचितं विशेषकं यत्र तन्मुखं वलितं साचीकृतम् । अत एव विषमं तिर्यग् यथा स्यादेवं सखीजनहस्तात् समाक्षिप्याकृष्य । तथा च प्रियसमीपगमनाय मुखमण्डनं कारयन्तीभि: प्रसाधकसखीहस्तान्मुखमाकृष्य तिर्यक् कृत्वा प्रथमप्रेषित एव-दूतीजन: पुनराहय 'तदैव स्फुरितं किञ्चित् प्रियस्त्वया मताचिकमित्थं वक्तव्यो मदागमनंच हठान्न वक्तव्यम् इत्यादिकमतिनिभृतमुपदिश्यत इति वैदग्ध्यं सूचितम् । 'तमालपत्रं तिलकं मुखबिन्दुर्विशेषकम् ।
943.219. चन्द्रस्यालोकेन दर्शनेन तेजसा वा प्रतिहतो निवारितगमनोत्साहो विलासिनीनामभिसारिणीनां सार्थ:
अभिसरणं न गृह्णाति कर्तव्यतया न स्वीकरोति न च अलकं संस्थापयति संयमयति नायकनिकटगमनाय प्रसाधनभावेनेत्यर्थः । न च दूतीं पृच्छति कथं गमनं स्यादित्यादिकमित्यर्थ: । किं तु ममावज्ञामवैदग्ध्यमस्वायत्तिं वा किं ज्ञास्यति प्रिय: कथं वा तत्समागम: स्यादिति मूढहृदय: केवलं वेपते मदनागमनेन स चेदन्यमाश्रयेत्, अथवा मामन्यानुरक्तामवगच्छेत् तदा मया न जीवितव्यमिति भावः ।
949.220. प्रियस्य पार्थात् समीपानिवृत्त आगतो दूतीजन: संमुखमग्रतो एव अलीकमपि 'स न स्वयमेष्यति न वा
त्वां नेष्यति, किन्तु तवापराधानुक्त्वा परस्यामनुरज्यति' इत्यादि मिथ्यापि यद् भणति