________________
670
Prakrit Verses in Sanskrit Works on Poetics समुद्रदर्शनाश्चर्येण वा । पश्यतामिति समुद्रदर्शनस्य वर्तमानत्वेऽपि हनूमति दृष्टिपातेन समुद्रापेक्षयापि तल्लङ्घनादाश्चर्यभूमित्वं हनूमत इति व्याजि ।
513.146. अलघ्यं समुद्रं लवयित्वा गतमागतं च मारुततनयं दृष्ट्वा तत्र स्थितानामेषां वानराणां हृदयेषत्साहो
गूढ: सन् गुप्तो भ्रमति । अस्मज्जातीयेन हनूमता लघितोऽयमिति हनूमद्दर्शनादुत्साह उद्भवति अस्माभिर्न लच्यत इति लज्जया न बहिर्भवतीति गूढभ्रमणपदयोस्तात्पर्यम् । भ्रमणबीजमुत्प्रेक्षते । कीदृशेषु । समुद्र दृष्ट्वाज्ञानं मोहस्तद्रूपान्धकारविशिष्टेषु । तथा च मोहच्छन्नत्वादुत्साहो न प्रकाशित इति भावः । अन्योऽप्यन्धकारे पतन्भ्राम्यतीति ध्वनि: । 'मूढः' इति पाठे जडीभूत इत्यर्थः ।
514.147. युष्माकमनुभूतादनुभवादपि | भावे क्त: । मम श्रुतमेव श्रुतमध्ययनं शास्त्रं वा तज्जन्यज्ञानमेव गुरु
अधिकम् । अनुभूतात् कीदृशात् । प्रत्यक्षात् इन्द्रियप्रत्यासत्तिजन्यात् । श्रुतं कीदृशम् । परोक्षम् इन्द्रियप्रत्यासत्यजन्यम् । एवं कथमपि कादाचित्कतया तुलाग्रं काकतालीयसंवादस्तेन तन्न्यायेन घटितादुत्पन्नसंवादात् । आगमेन वेदपुराणादिना शुद्धमविसंवादिनिर्धारणरूपम् । तथा च संचालितम् अहार्याप्रामाण्यशङ्कादोलायितमपि निष्कम्पमसकृत्संवादेन गृहीतप्रामाण्यमिति यथायोग्यमुभयविशेषणम् । तथा च तादृशानुभवस्यानुमानादिजन्यपरोक्षज्ञानापेक्षयान्तरङ्गेन्द्रियप्रत्यासत्तिजन्यत्वेनौत्सर्गिकगौरवसामग्रीसत्त्वेऽपि सदोषपुरुष-संबन्धित्वेनौत्सर्गिकभ्रमत्वेन कादाचित्कसंवादित्वम् अतस्तदपेक्षया मदीयश्रुतजन्यज्ञानस्य परोक्षरूपत्वेऽपि निर्दोषपुरुषप्रणीतागमसापेक्षत्वेन सर्वथा संवादित्वमिति मदुक्त्यनुसारेण व्यवहर्तव्यमिति समस्ताखण्डलकार्थ:।
519.148. जानकी अभ्यर्थनां काक्वा याच्यां न गृह्णाति न स्वीकरोति । त्रिभुवनश्रियापि दीयमानया लोभयितुं न
शक्यते । किमपरमस्माभिः क्रियमाणं शरीरवधमपि न गणयति । तदेवं दैन्योक्तिदानप्राणग्रहणरूपोपायवैगुण्यान् मन्ये तर्कयामि कथं सानुनया गृहीतानुनया प्रसन्ना भवेत् । न भविष्यतीत्यर्थः । तथा च प्रकारान्तरमनुसरणीयमिति भावः ।
520.148. पत्युर्माहात्म्ये स्वाभाविके वालिवधादिजनिते च गौरवे निषण्णा दत्तभारा, अत एवावमानितमवज्ञाविषयीकृतं
शेषस्य रामभिन्नस्य सत्पुरुषस्य शौटीर्यमहंकारो यया । तथा सा जनकसुता केवलं लूनस्य राघवशीर्षस्य दर्शनं यस्यास्तथाभूता सती । यदीति संभावनायाम् । तेन यदि वा वश्या भवेत्तदा भवेदित्यर्थः । प्रकारान्तरं नास्तीति भावः ।
521.148. यावद् रामधनुर्ध्वनि: शाम्यति तावदेव निजके स्वभावसिध्दे न तु भयादिनिमित्तके निद्रापरिक्षये सति
राक्षसनाथो विबुद्धो जागरित : । किं कुर्वन् । प्राकारेणान्तरितं व्यवहितम्, अथ च कटकितं कटकात्वेन सेनात्वेन व्यवस्थितम् । यद्वा—कटकं वलयस्तद्वलकामावेष्ट्य स्थितं, कपिसैन्यं रणे महितं सत्कृतमप्यगणयन् । एतेनाहंकारित्वमुक्तम् ।
524.149. प्रच्छादयतोऽप्यर्थादालापमेव संगोपयतोऽप्यस्य रावणस्य हृदयस्थित: सीतामय: समुल्लाप: प्रियाणां
मन्दोदरीप्रभृतीनामप्यग्रे मुखनिवहेऽपि सममेकदैव बहुश: प्रवर्तते । सीता सीतेति बहुशो जल्पतीत्यर्थः ।