________________
Prakrit Verses in Sanskrit Works on Poetics
675 किंभूता । उरसि घूर्णमानेन वेणीमुखेनोद्घृष्टमुत्प्रोञ्छितं स्तनलग्नं महीरजो यस्याः।। 1383.295. ततोऽलकासंवरणानन्तरमस्या: करयुगलमावेगेनोद्वेगेन समुत्क्षिप्तमुत्थापितं सत् पयोधरौ अप्राप्तमेव ।
अस्पृष्टस्तनमेवेत्यर्थः। निजोत्सङ्गे क्रोड एव पतितम् । कुतस्तदाह - खेदाप (? खेदा)गमेनावसीदत्पीडया विह्वलम्, अत एवापवृत्तं स्खलितम् । स्तनतटं ताडयितुमभीप्सोरपि तस्याः
खेदावसन्नतया करयुगं तावद्दूरमपि न गतम् । किन्तु क्वचिदन्यत्रैव स्खलित्वा पतितमित्यर्थः।। 1384.295. नवपल्लवेनेव वक्षस: प्रहारादातामेण अत एव विह्वलेन मार्जनाद्यसमर्थेन हस्तेन तया सीतया मुखं परिमा?
न शकितम् । किंतु एकस्मिन्कपोले मिलिता: संवरणाद् वर्तुलीकृता अलका यत्र तादृशं कृतम् । तथा च मुखमार्जनाभावेऽपि मुखोपरि विकीर्णत्वेन शिरोदर्शनप्रतिबन्धकत्वादलकानां संवरणं क्रियमाणमेककपोल एव निष्पन्नं करस्य विह्वलत्वाद्दर्शनस्य तावताप्युपपत्ते:, अपरकपोले तु विकीर्णा एव ते स्थिता इत्यसामर्थ्यमुक्तम् ॥
1385.295. ततस्त्रिजटावचनोत्तरं जनकतनया सख्यां य: सद्भाव: सौहार्द तत्सदृशं तद्योग्यं यथा स्यादेवं त्रिजटाया
उरसि निषण्णा । --- किंभूता । अगृहीत इदमित्यमेवेत्यस्वीकृतस्त्रिजटाया उपदेशो यया । अत एव प्रथमं व्यक्तिरेकनिश्चयानतेन पश्चात्रिजटावाचा संदेहादपनिवर्तमानेन परावृत्त्या गतेन जीवितेन मुह्यन्ती प्राणसंदेहे सति मोहोत्कर्षादिति भावः ।
1386.295. त्रिजटाया वक्षसि तिर्यनिषण्णायास्तस्या बाष्पजलं लोचनयोर्व्यतिकरण संपर्केण । लग्नं सत् ।
वक्षसीत्यर्थात् । गलितं त्रिजटावक्षसि सांमुख्यनैव. पतितत्वालोचनसंबंधादश्रुसंबंध इति भावः । किंभूतम् । कपोलेन यत् प्रेरणं यन्त्रणं तेन पीडयमानालकेभ्य उद्गतं नि:सृतं तिर्यनिषण्णत्वादश्रुणोरैक्यमिति भावः ।
1387
. (स्तनजवनोन्नतिमाह ।) भूमावधोमुखीभूय सर्वाङ्गेण निषण्णाया अपि तस्या मध्यप्रदेश उदरं .स्तन-जघनेन करालित: सान्तरालीकृतः सन् वसुधां न प्राप्नोति । स्तनयोर्जघनस्य चोन्नतत्वादुभयतोऽप्युत्तोल्य धृतत्वादवनीं न स्पृशतीत्यर्थ: । अत एव करालितपदेनोदरस्यातिकृशत्वमुक्तम् । कीदृक् । नि:शेषत: क्षपिता अपगता वलीविभड्गा यस्य तथाभूत: सन्निरायतो दीर्घ: । दैर्ध्याद्भयतोऽप्याकर्षणात त्रिवलिव्यपगम इत्यर्थः ।
1388.296. तत: किञ्चिद् विलापानन्तरं रामस्योर:स्थले यच्छयनं तत्र निराशं हृदयं यस्यास्तथा सती सीता
महीतलस्योत्सङ्गे पतिता । एवंविधविपत्तौ पुत्र्यो मातु: क्रोड एव पतन्तीति भाव: । किंभूते । स्फुटितस्य शिथिलत्वात् स्थानभ्रष्टस्य वेण्या बन्धनस्य बन्धनपाशस्य भड्गेनापगमेनोद्गता: प्रसृता:, अत एव विषमा व्यस्ता ये केशास्त एव पर्यास्तरणं यत्र तत्र । केशानां तृणादिवदास्तरणीभावेन बाहुल्यमुक्तम् ।
1389.296. तत: पुन: पतनानन्तरं प्रथमं मूर्छिताया: पश्चाचैतन्ये सत्युत्थितायास्तस्या मुखं मूढस्येव परिदेवितं