________________
676
Prakrit Verses in Sanskrit Works on Poetics
दुःखप्रकाशनं यत्रेति मूढपरिदेवितमनक्षरपरिदेवितं जातम् । चेष्टयैव परिदेवनं चकारेत्यर्थ: । तचेष्टामाह - किंभूतम् । किमेतदिति कृत्वा किमेतदित्यभिलप्य गगने दिक्षु च सममेकदैव शून्ये मनोवैकल्येन
विषयाग्राहके सति परि सर्वतोभावेन चूर्णिते अक्षिणी यत्र |--- 1390.296. त्वां कदाचिदपि द्रक्ष्यामीपि प्रत्याशया तव विरहे मया कथमपि जीवितं धृतम् । तदेष मृतस्त्वं दृष्टोऽसि ।
अत: फलिता अपि मनोरथा मम न पूर्यन्ते । त्वदर्शनं जातमिती फलिता:, मृतो दृष्टोऽसीति न पूर्यन्ते । संभाषणाद्यभावात् ।---
1391.296. पृथिवी, राजलक्ष्मी:, अहं च तव तिस्रः पल्य:, तत्र त्वद्विगमे पृथिव्याः पतिर्भविष्यति । य एव राजा
भवेत् स एव तस्या पतिरित्याशय: । तथा बहुषु पुरुषविशेषेषु चञ्चला राजश्री:, अत: सापि राज्ञो लक्ष्मीरिति पृथिव्यनुगामिनी राजानमेव यास्यति । तावदित्यवधारणे । ममैवकथं नि:सामान्यमेतदुभयापेक्षयासाधारणमिदं वैधव्यमुपस्थितम् । तथा चासत्यौ ते भवत्पारोक्ष्यमेवेच्छत: ।
कुलस्त्रिया मम परं गतिरन्या नास्तीति मया मर्तव्यमेवेति भावः । 1392.297. आपात उपक्रम एव भयंकरम् । दु:खमित्यर्थः । --- निर्वहणं तु पर्यवसानं तु दारुणं न भवतीति
विज्ञायते । यद्-हेतोर्महिलानां बीभत्सं स्त्रीणां निन्दाकरं तवावसानं मरणं मया दृष्टम् । न केवलं दृष्टम्, अपि तु सोढं च । मरणरूपतदनुरूपव्यापाराभावात् ।---
1393.297. हे नाथ, मयासह्यापि राक्षसवसतिस्त्वदर्शनप्रत्याशया सोढा । तत्रापि तवेदृशमयोग्यमवसानं च दृष्टम् ।
एतत्ततोऽप्यशक्यमिति भाव: । अद्याप्येतद्दर्शनोत्तरमपि वचनीयेन वाच्यतया हतं मम हृदयं धूमायत एव संतापेन मोहान्धकाराविष्टं सदुःखमेवानुभवति, न तु प्रज्वलति । तथा च ज्वलनपूर्वकालीना धूमायमानावस्थेति ज्वलिष्यत्यवश्यम् । किन्तु राक्षसवासागमनकाल एव ज्वलितुं योग्यमवसानदर्शनेऽपि न ज्वलतीति लोकानामपवादेन परास्तमित्यहमधन्येति भावः ।
.1394.297. तव विश्लेष: सोढः, तथा च प्रथमं तदेवाशक्यम् । तदुपरि यथा सखीभिः सह स्थीयते तथा रजनीचरीभिः
समं व्युषितमिति ततोऽप्यशक्यमित्येतद् द्वयं त्वां द्रष्टुं कृतमिति तदाभवदभविष्यत् । यदीदानीमपि त्वद्विपर्ययज्ञानानन्तरमपि जीवितं विगलद् व्यगलिष्यत् ।---
1395.297. तत: पुनरश्रुमार्जनानन्तरं पुनस्तच्छिरो दृष्ट्वा त्रिजटायां गते उन्मुखे लोचने यस्यास्तथाभूतया तया
मामापृच्छस्व संवद मरणकृतोद्यमां मामनुजानीहीति दीनं शोच्यं सकरुणं वा हास्यं कृतं बाष्पेण गलितत्वान्नि:सारे अक्षिणी यत्र तद्यथा स्यादेवम् । किंभूतया । मरण एव एकस्मिन्नेको वा रसो यस्यास्तादृश्या । तथा च राक्षसीमध्ये मरणमिति दैन्यम्, मृत्वा हठादेव रामो द्रष्टव्य इति हास्यम् । यद्वा लूनशिरोदर्शनोत्तरमियत्कालमेव जीवितास्मीत्यात्मनिन्दावशाद् दीनविहसितमिति भाव: ।
1396.297. हे त्रिजटे, प्रथमं रामविरहे सोढे सत्यनन्तरं दारुणहृदयेन प्रतीष्टेऽङ्गीकृते वैधव्ये च सति गतो य: स्नेहस्तेन
लघुकमनादरणीयम् । यत्र विरह एव मर्तुमुचितं तत्र वैधव्यमपि सोढवतीत्यहो नि:स्नेहा दारुणा चेति