________________
Prakrit Verses in Sanskrit Works on Poetics
677
दुर्वादविषयत्वादिति भावः । अत एव निर्लज्जमरणमिदं मम सहस्व क्षमस्व नोपहासविषयीकुर्या इत्युक्त्वा सीता पुन: प्ररुदिता |---
1397.298. सा सीतानुशोचनं कर्तुं नेच्छति कण्ठशोषात्, परस्मिन्निव शत्राविव अङ्गे प्रहारं न ददाति नि:सहत्वात्,
बाष्पं न मुञ्चति किं तु रुणद्धि बहुरोदनदुःस्थचक्षुःपीडाकरत्वात् शिरोदर्शनविलोपकत्वाच । तर्हि प्रणयस्य न्यूनत्वमतो हेतुमाह - अस्या हृदयं मनो मर्तव्ये लब्धप्रत्ययं यतो लब्ध: प्रत्ययो निश्चयो येन तज्जातनिश्चयमित्यर्थः । तथा च मरणरूपसर्वाधिकव्यापारे दत्तभरत्वादिति भावः ।
1398.298. रामशिरसि रामशिरोरूपं वा बद्धमनुबद्धं लक्ष्यं यया तादृश्यस्या दृष्टिर्बाष्पेण धाव्यते क्षाल्यते, न तु रुध्यते
--- । बाष्पस्याविश्रान्तपतनादालोकनाप्रतीघातादिति भाव: । किंभूता । लक्ष्यमाणो विषादो यस्याम् । एवम् - अभ्यधिकमुन्मीलितें तत्त्वजिज्ञासया सम्यगविस्तारिते । अथ च - विस्मयान्निश्चलस्थिते नयने गोलके यस्या: । दृष्टिरेकैव, दर्शनं वा ।।
1399.298. ततस्तत्परिदेवनोत्तरं हस्तेनोन्नामितं मुखं यया । सीताया इत्यर्थात् । एवंभूता त्रिजटा मधुरं प्रियं यथा
स्यादेवमाश्वासयन्ती सती एनां सीतां भणति । किंभूताम् । विलपितेन निष्पन्दाम् । एवं स्थानाद् भ्रश्यता हृदयेन परिशून्यं विषयाग्राहकं लोचनयुगलं यस्यास्ताम् ।
1400.298. त्वं मा रोदी:, बाष्पं प्रोञ्छ, स्वस्य पत्युर्वा अंसे परिवृत्तं तिर्यग्भूतं मुखं तद्यथा स्यादेवमुपगूह्यालिङ्ग्य ।
पतिमित्यर्थात् । विरहदु:खं च स्मृत्वा ते त्वया पुनरपि पत्युरङ्के रोदितव्यं विश्लेषदुःखानन्तरं मिलने बन्धवो बन्धुमालिङ्गय रुदन्तीति तत्रापि पुनर्मिलनं रोदनं च स्यादित्यस्थाने नामङ्गलमाचरेति भावः ।
1401.298. अचिराचं त्वं दाशरथिं द्रक्ष्यसि । कीदृशम् । तव विरहेणावरुग्णा दुर्बला अथ च पाण्डुरा मुखच्छाया
यस्य तम् । एवं रावणवधेन गतरोषत्वात् सुखदृश्यम् । तथा कृतकार्यत्वादवतारितेन हस्तादपसारितेन
चापेन निर्वृतं सुखितम् । व्यग्रता विरहादिति भाव: । 1402.299. अचिराच रघुसुतस्ते वेणीं मोक्ष्यति । किंभूताम् । आर्द्रायमानाभ्यां त्वत्स्पर्शात् स्विद्यद्भ्यां हस्ताग्राभ्यां
मुकुलितानि स्वेदसंबन्धात् संवृत्तानि पक्ष्माणि असंयमनादुत्थितलोमाग्राणि यस्यास्ताम् । एवं भावोदयादेव वेपमानाभिरगुलीभिरुत्क्षिप्ता: समीकृता विषमभागा यस्याः । प्रोषितो भर्ता समागत्य प्राकृतं विरहिण्या वेणीबन्धं मोचयतीति भावः ।
.1403.299. रामपतने सति इत्यनेन प्रकारेण दशाननगृहोद्यानं कथं निश्छायं कान्तिशून्यं भवति । प्रकारमाह -
कीदृशम् । मारुतेन मोटितं विटपं यत्र । एवं मृगाङ्ककिरणानां प्रतिमर्षात् संस्पर्शान्मुकुलितं कमलं यत्र तथा । तथा च रामपतनं यदि सत्यं स्यात्, तदा मारुतेन शाखाभङ्गश्चन्द्रेण कमलसंकोच: कर्तुं कि शक्येत । भवति च तथा । तज्जानीहि रामप्रतापो जागरूक इति भावः ।
1404.299. सकला --- निशाचरपुरी लङ्का गृहपरिपाट्यां समं युगपन्निर्हादित: शब्दान्तरोत्पादी रुदितरवः ।