________________
678
Prakrit Verses in Sanskrit Works on Poetics
राक्षसानामित्यर्थात् । यस्यां तादृशी । --- एकेन हनूमता कृता । अत: कथमध:क्षतादि तद्रहिता राक्षसा यत्र तथाभूतं रघुपतनं भवेत् । तथा च तथाविधकोटिवानरसहाये तस्मिन्निहते कोटिकोटिराक्षसा अपि निहता: स्युः, अतस्तदभावे तत्कथं तर्कयसीति भावः ।
1405.299. दशवदनस्ययो दर्पभङ्गस्तदुत्फालं तत्सूचकं प्रमदवनं पश्यन्ती त्वं समाश्वसितव्ये हर्षस्थाने किमिति मुह्यसि
रामशिर: शङ्कित्वा विषीदसि । दर्पभङ्गसूचकतामाह - रामाज्ञप्तिकरण हनूमता आविद्धा: पातिता द्रुमा यत्र तत् । तथा च तदानीमेकेनैव प्लवगेन वाटिकाभङ्ग-लङ्कादाहाक्षमारणादिशूरकर्म निष्प्रत्यूहमाचरितम्, इदानीं तादृशकोटिकोटिप्लवगसमेतयो रामलक्ष्मणयो: का वार्तेति भावः ।
1406.299. हे जानकि, राघवस्य भुजबलं मा लघुकमल्पं पश्य जानीहि । कीदृक् । वालिनो वधे दृष्टसारम् --
अथ बाणेन गलहस्तित: प्रेरितो य: समुद्रस्तेन दत्तो रामायेत्यर्थात् स्थलरूप: पन्था यस्मात् । अथ रोधितं लङ्कावलयं येन । तथा च रामे नैतत्संभाव्यमिति भाव: ।
1407.300. हे सीते, मूर्छाप्राप्तम् अत एव पतितं सन्निःसहं निश्चेष्टं विषण्णमवसन्नं ('णिसण्णंगी' इति पाठे निषण्णम्)
अङ्गं यस्यास्तादृशी त्वं तथानिर्वचनीयं मोहं गतासि, यथा इयं राक्षसमाया न तु शिर इति स्फुटं जानती अहमपि विषण्णा । शिरोदर्शनेन मम विषादो नाभूत, किंतु त्वद्विषादेन सत्यमेवैतत्स्यादिति भ्रान्त्या विषादो जात इति भावः ।
1408.300. तत्पूर्वोक्तहेतोर्धेयमवलम्बस्व । यावदिति परिच्छेदे । इदममङ्गलं रोदनादिरूपं संप्रति नश्यतु । इयं च
शिरोघटनरूपा माया निवर्तताम् । कीदृशी । ज्ञातपरमार्था सती लघुका तुच्छा कपटस्य विशेषादर्शनमात्रावधिकत्वात् । अतोऽवधीरितानादृता सती निष्फला भ्रमाजनिका । तथा च कपटत्वेन निर्णीयावहेलया निष्फलयेति भावः ।
1409.300. हे जानकि, पतिं राममेतादृशं जानती त्वं शेषपुरुषाणां प्राकृतजनानामनुमानेन मनुष्यत्वादिसाधर्म्यण किं
तुलयसि सदृशीकरोषि । कीदृशम् । त्रिभुवनानां मूलस्य कारणस्याधारमाश्रयम् । कारणमित्यर्थः । तेन जगत्स्रष्टारम् । तथा हिरण्याक्षत: पराजयाद् विह्वलेन महेन्द्रेण प्रतिमुक्ता त्यक्ता, अथ स्वयं विष्णुरूपेण व्यूढा धृता रणधुरा येन तम् । --- साधारणजनवत् कस्यापि वध्य इति मा बुध्यस्वेति भाव: ।।
1410.300. अमिलितानि न परस्परमेकीभूतानि सागराणां सलिलाननि यत्र । एवम् अनघा अविशीर्णाः स्थिता महीधरा
यत्र । तथा अनुवृत्तमुपरि नागतं तलमधोभागो यस्यास्तथाभूता धरणी छिन्नं सत्पतितं रामशिरो धारयतीति कथं प्रत्येषि । तथा च यदि सत्यं रामशिर:पतनं स्यात, तदा सागरमिलनादिरूपा प्रलयादस्योत्पातावस्था वा भवेदित्येतदभावादिदमप्यसत्यं मन्यस्वेति भाव: ।---
1411.300. उत्तिष्ठ, शोकं मुञ्च, बाष्पैरश्रुभिः --- मलिनितं स्तनपृष्ठं प्रोञ्छ । उपपत्तिमाह - शृणु पत्यौ
समराभिमुखे सत्यश्रुनिपात: शकुननिमित्तं न वर्तते । कित्वमङ्गलनिमित्तमिति भाव: ।