Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology
________________
682
Prakrit Verses in Sanskrit Works on Poetics 118.363. : Vide SK S.No. (511.146) supra. 119.363. विषवेग इव प्रसृतो बहलो धूमोत्पीडो यं यं महोदधे रुधिरमिव विद्रुमवेष्टं प्रवालमण्डलमभिलीयते मीलति
तं तमेव कज्जलयति कज्जलमिव करोति । श्यामलयतीत्यर्थः । तथा च धूमो न भवति किं तु श्यामत्वाद् दु:खहेतुत्वाच विषम् । विद्रुममण्डलं न भवति किंतु रक्तत्वात् समुद्रस्य रुधिरमित्याशय: । अन्यत्रापि सादिविषं वपुषि प्रविशद् रुधिरं व्याप्य श्यामीकरोतीति ध्वनिः ।
120.364. ततस्तेषां वानराणां निजकं स्वाभाविकं प्रकृतीनामाकृतीनाम् ।
शरीराणामिति यावत् । चटुलत्वमपि विगलितं ---- शरीरचाञ्चल्यमपि न स्थितमित्यर्थः । एवं हता छाया कान्तिर्यत्र तत् । निश्चला लोचनरूपा शिखा यत्र तत् । --- प्रोषितो नष्ट: प्रतापस्तेजो यत्र तद् यथा स्यात्तथेति क्रियाविशेषणत्रयम् । तथा च तेषां देहकान्ति-नयनचाञ्चल्यप्रतापानां चाञ्चल्यरूपस्वाभावस्य चापगम: समकालमेव वृत्त इति तात्पर्यम् । केषामिव आलेख्यानां प्रदीपानामिव । --- तथा च वानरा: प्रकृत्या चञ्चला अपि मोहादप्रतिभया च समुद्रं दृष्ट्वा निश्चला बभूवुरित्यर्थः।
139.367. Vide SK S.No. (174.77) supra. 140.367. Vide SK S.No. (173.77) supra. 143.368. हे प्लवगपते, रघुपते: प्रियमिदमिति कृत्वा विप्रियं कर्तुं किमिच्छसि । किं कुर्वन् । दशवदनं हन्तुं
विमृग्यन्निच्छन् । रघुपतेः कीदृशस्य । आत्मना स्वयमेव दशवदनं हन्तुं सत्वरस्य । तथा च त्वत्कर्तकरावणवधस्य प्रियत्वेऽपि मयैव रावणो हन्तव्य इति प्रतिज्ञाभङ्गरूपत्वेन विप्रियत्वम् । एवं च तव रावणवधे सामर्थ्यमेव किं तु रामप्रतिज्ञाभङ्गरूपत्वेनाकर्तव्यमिति भावः ।
146.369. Vide SK S.No. (1301.281) supra.
148.369. Vide SK S.No. (178.78) supra.
150.370. Vide SK S.No. (181.79) supra.
151.370. Vide SK S.No. (182.79) supra.
152.370. नदीस्रोतांसि गिरीणां मार्गेण प्रस्थितानि । गिरीणां यावस्था सा नदीनामपीत्यर्थः । तदेव आह - यदा
गिरय उन्मूलितास्तदा यथा तेषां भूसंबन्ध: खण्डितस्तथा स्रोतसामीपीत्यर्थ: । एवमन्यत्रापि । यदा गिरय उत्क्षिप्यमाणतया ऋजूकृतास्तदा तान्यपि ऋजुकमपसृतानि । ऋजूभूय पतितानीत्यर्थ: । आर्जवमात्रे तौल्यम् । एवं यदा गिरयस्तिर्यड्नभसि नीयमाना दीर्घा इव जातास्तदा तत्पृष्ठाकाशदेशे व्यवच्छिद्य पतितानि स्रोतांसि निरायतानि पवनवेगवशाचिरं दीर्घाणि जातानीत्यर्थः ।
155.371. वेपमानेषु तरङ्गेषु प्रतिमया प्रतिबिम्बेन पतितं संक्रान्तं शशिबिम्बंघूर्णते वेपते । समुद्रे चन्द्रबिम्बस्तरङ्गकम्पेन
Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768