Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 754
________________ 690 Prakrit Verses in Sanskrit Works on Poetics 102.602. हे विभीषण, तव सौम्यस्वभावेन सत्त्वप्रकृत्या परिवर्धितं विज्ञानं विशिष्टज्ञानं निशाचरैस्तमोगुण प्रधानैरप्यविद्रावितं सहवासादिनापि न विप्लावितमिति विज्ञायते । तथा च नाम्ना जात्या च विभीषण: स्वभावेन सौम्यो यन्मामुपागतोऽसीति भावः। किमिवा उदधेरमृतमिव । यथा सौम्यस्वभावपरिवर्धितमुदधेरमृतं दृष्टिविषैः सर्न विद्राव्यते, सहस्थित्यापि न कालकूटीक्रियते न वा दह्यते किं त्वमृतमेव तिष्ठतीत्यर्थः। तथा चामृतप्रायं तव ज्ञानमत: सुखमवाप्स्यसि दृष्टिविषप्राया अन्ये राक्षसा धर्मद्वेषाद् दु:खं लप्स्यन्त इति भावः।

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768