Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 752
________________ 688 Prakrit Verses in Sanskrit Works on Poetics संनिहिता भवत इत्येवंरूप: प्रतिसंलाप: प्रत्युत्तरम् । लोकेऽप्येको विपद्ग्रस्तं वादयति स पुन: प्रत्युत्तरयतीति ।--- 29.587. Vide SP S. No. (25.47) supra. 42.589. ततस्तदनन्तरमस्य रामस्य विगलितं धृतं यद्धनुस्तन्मात्रे व्यापृत: कृतमुष्टिपीडनादिव्यापारो वामभुजोऽन्य एव जातः । स्वाभाविकरूपातिरिक्तरौद्ररूपोदयात् । कीदृक् । चिरवियोगेण तनुक : कृश : । एवं सदा बाष्पेणावमृष्टस्तत एव मृदुक : कोमलो जीवा ज्या तदाघातस्तद्घर्षणकिणो यत्र । धीरोदात्तत्वाद् रात्रौ वामपार्श्वन शयानस्य रामस्योपधानाभावादुष्णसंतापाश्रुसंबन्धान्मृदूकृतज्याकिण इत्यर्थ : । तथा च तनुत्व मृदुत्वाभ्यामनुकम्पनीयोऽपि वीररसोद्रेकादुत्पुलकत्वेन पुष्ट: कठिनश्च वृत्त इति भावः। 43.589. ततो वर्षानन्तरं शरदुपगता । कीदृशी । हरिपते: सुग्रीवस्य यशोमार्ग : । शरदमालम्ब्य तस्य सेतुबन्धनादियश: प्रादुर्भावात् । एवं राघवजीवस्य प्रथमहस्तालम्ब : । सेतुबन्ध- रावणवध - सीतासमागमानां द्वितीयततीयचतुर्थानामपेक्षया शरदेव प्रथमो हस्तालम्ब:। शरत्प्राप्तिरेव तस्य दुष्करासीत् । तस्यां तु. सत्यां सर्वमिदमीषत्करमिति भाव : । एवं सीताया बाष्पाणामश्रूणां विघातोऽवसानम् । रामसमागमाध्यवसायात् । वधमहतीति यत्प्रत्ययेन वध्यमिति साधु । तथा च दशमुखस्य वधार्हो दिवस इति सर्वत्र रूपकम् |--- 45.590. मुक्तं सलिलं यैस्तादृशा मेघा:, अभिनवानि दत्तानि फलानि यै :, अथवा तत्कालदत्तानि फलानि यैस्तादृशा वृक्षसमूहा : समरमुखादवहृता अवपातिता मण्डलाग्रा: खड्गा येभ्यस्तादृशा भुजा लघवोऽपि गुरवो भवन्ति अयं भाव : . - मेघवृक्षभुजा जल[फल खङ्गसत्तादशायां गौरवयुक्ता: स्थिता:, 'अथ जलादीनां मुक्ति-दान-त्याग दशायां लघुभूता अपि सन्त: सस्योत्पति - तृप्ति - शत्रुक्षयादिरुपकार्यकारित्वेनादरणीयतारुपगौरवयुक्ता एव भवन्ति । तथा च भवद्भुजा अपि कृतकार्या गुरुभवेयु:, ... इति भाव : । विरोधाभाससूचनायापिशब्द: । 47.590. रामो मृगाङ्ककिरणान् कलङ्किसंबन्धितया निन्दति । कुसुमायुधे खिद्यते कुसुमबाणोऽपि कुलिशेनेव निहन्तीति मनोदु:खं लभते । रागजनिकेयमिति रजनी जुगुप्सते निन्दति । अथ प्रिया सीता जीवेदिति मारुतिं पृच्छन् विरहजन्यवैकुव्येन सहजत: क्षीणोऽपि केवलमत्यर्थेन क्षीयते । सीताजीवनसंदेहादिति भावः। अत्राप्यमङ्गलपरिहाराय जीवेदिति भावमुखेन प्रश्र : I... प्रिया जीवेदिती मारुतिं पृच्छन् । तथा च प्रिया यदि जीवेत्तदा मम जीवनत्यागस्तहःखाय स्यादिति जीवतीत्यभिप्राय:। 49.591. अग्निनिवहे सलिलमस्तायतेऽस्तं गच्छति । अलक्ष्यं भवतीत्यर्थः। एवं सानलनिवहेऽग्निसमूहसहिते उच्छलत्सलिले नभोऽस्तायते । एवं सलिलनिवहेनावस्तृते व्याप्ते नभस्तले सति दशदिक्चक्रमस्तायते । अग्निप्रेरितानां जलानां नभसोऽपि दिशि दिशि गमनात् |--- 55.592. Vide SP S. No. (1301.281) supra.

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768