Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 751
________________ Prakrit Verses in Sanskrit Works on Poetics 687 विक्षिप्तम् । अत एव भृते व्याप्ते महीनभोविवरे येन । वृष्टिकाले भूम्याकाशव्यापनादित्यर्थ: । एवं नदीमुखेन नदीप्रवेशस्थानेन पर्यस्यन्तमितस्ततो गच्थन्तम् । समुद्रतरङ्गभिघातादिति भाव: । अथ च समासोक्त्या समुद्रस्य नायकत्वं नदीनां च नायिकात्वं प्रतीयते । ----- जलनिवहं किमिव । यश इव । समुद्रस्यैवेदं जलमिति कीर्तिरूपमिव । अन्योऽपि यश: पिबत्यास्वादयति । कीदृशं मुखरा मागधास्तैर्विप्रकीर्णमितस्तत: प्रकाशितम् । एवं व्याप्ताकाशमहीपातालम् । विवरं पातालम् । एवं नतिमुखेन . याचकेन पर्यस्यद् दिशि दिशि गच्छत् । अथ चात्मन एव निर्गतम् । स्वयश: स्वस्मादेव निर्गच्छतीति भावः । 14.584. निशाचरपतिना रावणेन दृष्टिविषा: सस्तेषां गृहं पातालं विवरं वा विषौषधिरिव विषनाशकमौषधमिव सीता राक्षसवसतिं लङ्कामुपनीता । यथा सर्पगृहे गद्य (?) रूपविषौषधनिधानेन सर्पा विनश्यन्ति तथा लङ्कायां सीतोपनयनेन राक्षसा विनझ्यन्तीति भाव: । रावणेन कीदृशेन । चिरं व्याप्य बन्दीकृतदेवस्त्रीणां परिग्रहे लब्धास्वादेन । तथा च कामोन्मत्तचित्ततया सीतामप्यपहृतवानतो न स्थास्यतीति भाव: । 18.584. रविबिम्बं विद्रुमवंदातानं दृश्यते । कीदृक् । सिन्दूरेणाहतस्य स्पृष्टस्य गजेन्द्रकुम्भस्येव च्छाया कान्तिर्यस्य लोहितत्वात् । एवं मन्दरधातुभिः कलङ्कितस्य मथनसमये रज्जुभावेन घर्षणाद्रतीकृतस्य वासुकेर्मण्डलं वलयीभावस्तदन्निश्चक्रलं वर्तलमिति संध्याराग उक्तः । 24.586. रामबाणेनाभिहतो यथा वडवानलो ज्वलति अग्निसंबन्धादधिकं वर्धते तथोदधिरपि ज्वलति । एवं तत एव यथा तत्रत्यशैल: स्फुटति तथोदधिरपि स्फटति । वहनिसंबन्धात । एवं रामशराभिहतो यथा जलपानार्थमागतो जलद: पीडया रसति शब्दायते तथोदधिरपि रसति । शरानलसंघट्टात् । रामबाणेनभिहत: समुद्रोपरि संचारी मारुतो यथा तीरं लवयति तदतिक्रम्य गच्छति तथोदधिरपि तीरमतिक्रामतीति सहोपमा । . .. 25.586. तमसो निवहो महीतले भृतो व्याप्त: सन् भूमिष्ठं वस्तुजातं वहत्युद्हतीव भूमिवदाधारीभूतत्वात् । पश्चात् पृष्ठतो नोदयतीव पृष्ठचर इव पुरोवर्तिनम् । पुरतोऽग्रे धारयतीव पृष्ठपातुकं पुरोवर्तीव पृष्ठतोऽनोदनेऽप्यपतनात् । पार्श्वयो : स्थित: सन् प्रेरयतीव यन्त्रयतीव यन्त्रवत् सिद्धार्थम् । तेषामेवोपरि स्थित: सन् गुरुकायत इव पतितगृहवदिति वहन-नोदन-धारण-प्रेरण-गुरुत्वानुभवेन व्यापकत्वविशिष्ट मूर्तत्वमत्प्रेक्षितम् । 26.586. Vide SP S. No. (160.74) supra. 27.586. Vide SP S. No. (165-75) supra. 28.586. कलहंसानां रव: श्रूयते । नतमित्यर्थात् । कलो हंसरव इति वा । कीदृक् । मन्मथधनुषो निर्घोषष्टंकारः । मादकत्वात् । ज्योत्स्नाधवलायां रजन्यां विश्वमेव जेतव्यमिति धनुषष्टंकारः । एवं कमलवनात् स्खलिताया लक्ष्म्या नूपुरनादः । तथा च रात्रौ संकुचत्कमलवनमुपद्रुतं परित्यजन्त्या हठात् संचार : स्खलने बीजम् । तथा निमीलनरूपविपद्दशायो मधुकरीभिर्व्याहताया नलिनि क्वासि किं करोषीत्येवं पृष्टाया नलिन्या इहास्मि

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768