Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology
________________
Prakrit Verses in Sanskrit Works on Poetics
685 निजकभारेणैवापवृत्ता विपरीत्य स्थिता याश्चन्दनलतास्ताभिराश्लिष्टानिति चन्दनसंबन्धात् सुरभितया पेयजलत्वमुक्तम् । एवं जलसंबन्धाद् रम्याणि तटयोर्यानि तृणानि तैर्दीप्रो दूरदृश्यः पन्था नि:सरणमार्गो येषां तान् । हरिद्वर्णतृणैरेवोभयतटोद्भूतैर्दूरत एव ज्ञायते प्रवाहपथोऽयमिति भाव: । तथा वनगजदानजलेन कटून् । एतावता तत्संबन्धेन स्वादस्य हृद्यत्वमुक्तम् ।
66.461. उभयं तटं व्याप्याबद्धसंक्रमस्वरूपे नलपथे वानरबलं संचरति । कीदृशे । शङ्खकुलवद्धवलानि कमलानि
यत्र । द्वयोरपि सत्त्वात् । एवं स्फुटमरकतवत् हरितपत्रभङ्गानाम् । वृक्षसंबन्धिनामित्यर्थात् । निघातो यत्र । विद्रुमेषु मिलितानि किसलयानि यत्र तादृशि | समानरूपत्वात् । तथा च समुद्रीयवस्तुभिः समं सेतुवस्तूनामतिमिश्रणेन समुद्रेण सह सेतोरैकात्म्यमुक्तम् ।
67.462. Vide SP S. No. (504.144) supra.
111.472. Vide DHV S. No. ( 7.7) supra. 41.486. Vide SK S. No. (120.364) supra. 56.489. Vide SP S. No. (157.74) supra. 62.490. ऋतुना वसन्तादिना द्वमाणां द्रुमेभ्य: सहकारादिभ्य: । चतुर्थ्यर्थे षष्ठी । कुसुमं दीयत उत्पाद्यते तत् .. पुनरात्मनैव न हियते । न नाश्यत इत्यर्थ: । कीदृक् कुसुमम् । विकसत् । रजोभि: परागै: कलुषं व्याप्तम् ।
एवं मकरन्दरूपेण रसेनाध्माता उन्मत्ता मधुकरा यत्र तत् । तथा च न केवलं पुष्पदानमात्रं किं तु तस्य विकासादिसकलसाम्राज्यसंपत्तिरपि ऋतुनैव क्रियत इति भावः। तथा च ऋतुवृक्षयोरिवावयोरपि भूष्यभूषकभाव इति । यत्र अचेतनेनापि दत्तं न ह्रियते तत्र भवतैव दत्ता मर्यादा स्वयमेव हर्तुं न युज्यत इति तात्पर्यम् ।
63.491. Vide DHV S. No. (* 7.7) supra. 78.493. Vide SP S. No. (199.83) supra. 79.494. Vide SP S. No. (200.83) supra.
110.508. स धूम्राक्षो रणाय निरैति । रथेनेव रोषेण समम् । यथा रथेन सह निर्गच्छति तथा रोषेणापि सहेत्यर्थः ।
एवम् - उत्साहेन सह यथा तथा निशाचरवलेनापि सहेत्यर्थः । किंभूतः । यथा भुजं (? ध्वज) तथा प्रहर्षमानन्दमपि । एवम् - यथा विक्रमं तथा वैराबन्धमपि वहमान इति सर्वत्र सहोपमा ।
16.514. Vide SK S. No. (120.364) supra.
25.516. Vide SP S. No. (194.82) supra.
Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768