Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology
View full book text
________________
686
Prakrit Verses in Sanskrit Works on Poetics 58.523. Vide SP S. No. (174.77) supra. 67.525. Vide SP S. No. (178.78) supra. 1.581. Vide W S. No. (5.36) supra. 6.582. (अथ वेलां वर्णयति) --- उदधिरेव गजेन्द्र इति रूपकम् । तस्य दानलेखामिव मदधारामिव
स्थितामित्युत्प्रेक्षा । मदलेखातौल्यमाह पुन : कीदृशीम् । विकसितं यत्तमालपुष्पं तेन नीलाम् । तमालस्य श्यामत्वात् । एवं वारंवारं चञ्चलकल्लोलरूपेण करेण परिमृष्टाम् । भूयोभूयस्तरङ्गसंबन्धात् । एवं फुलं यदेलावनं तेन सुरभिम् । मदलेखापि तमालवच्छ्यामा चञ्चलतरङ्गवद् य: कर: शुण्डा तथा परामृष्टा फुल्लैलावनवत् सुरभिश्च भवतीत्यर्थः ।
7.582. अथ प्रभातानन्तरं गमितो समापितो निशैव समयोऽवधिर्यत्रेति क्रियाविशेषणं गमितनिशाकालं वा । समुद्रे ' '
गम्भीरत्वे दृढस्थिते गाधतामनागच्छति सति रोषो राघववदनं विलग्नः । एतन्निशायामप्यगाध एव समुद्र: स्थित इति क्रोधसूचकविच्छायत्वादिधर्मविशिष्टं राघवमुखमासीदित्यर्थ: । क इव । चन्द्रमण्डलमुत्पातो राहुरिव । यथोत्पातश्चन्द्रमण्डलं लगति । राक्षसनाशसूचकत्वेन रोषस्य प्रजानाशसूचकचन्द्रोत्पाततुल्यत्वम् । .:
8.582. स्थान एव स्फिटितो भ्रष्टोऽपगतो दिवसो रात्रि व्याप्य भ्रमित्वा द्वीपान्तरं गत्वा गज इव प्रतिनिवृत्त: पुनरागतः ।
यथा बन्धनस्थानाद् भ्रष्टो गजो रात्रौ भ्रमित्वा प्रतिनिवर्तते प्रात: स्वस्थानमायातीत्यर्थः । साम्यमाह - कीदृक । संक्षोभितं कमलप्रधानं सरो येन । पक्षे संक्षोभितं शुण्डाद्यभिघातेनोपमर्दितम् । एवम् - सन्ध्यातप एवाताम्रो धातुकर्दमो गैरिकपङ्कस्तद् विशिष्टं मुखमुपक्रमो यस्य । पक्षे सन्ध्यातपवदाताम्र इत्यर्थः । तटाभिघातादिना मुखे गैरिकसंपर्कादिति भाव : ।
9.583. इत्यनेन प्रकारेण नियमितो नियन्त्रित: सुग्रीवो येन स पितामहतनयो ब्रह्मण: पुत्रो जाम्बवान् रामान्तेन वलित: ।
रामपार्श्वेन वक्रीभूयाभिमुखीभूत इत्यर्थ: । प्रलयधूमोत्पीड इव यथा प्रलयधूमसमूह: परिमृष्टमास्फालितं मेरुशिखरं येन तथाभूत: सन् सूर्यस्याभिमुखो भवति । स्थिरत्वादुत्तुङ्गत्वात् कपिलत्वाच शिखरप्राय: सुग्रीवः ।
तेजोमयत्वात् सूर्यप्रायो रामः । श्यामत्वाचादुत्थितत्वाच धूमप्रायो जाम्बवान् || . 10.583. कमलं गृह्यते हस्तेनादीयते । लोकैरित्यर्थात् । (? -- कमलं मुखमिव गृह्यते अर्थात्, पथिकैः स्मर्यते)
अत्रोत्प्रेक्षते - खण्डितमथोत्पाटितमुत्थापितं मृणालं यस्यास्तां नलिनी शिथिला रतिकालीनकरपरामर्शन विपर्यस्ता वलया यस्यास्तां प्रियामिव दृष्ट्वा । --- कीदृक्कमलम् । मधुमयमत एवाताम्रम् । एवं मधुकरीणां मधुर उल्लापो यत्र तत्तथा । कमलोपमर्दैन मधुकरादिध्वनिसंभवात् । मुखमपि मधुमदेनाताम्रमीषल्लोहितं
मधुकरीवन्मधुर उल्लापो यत्र (तादृशं च) । चुम्बनादिसमये मधुकरादिध्वनिकरणात् ।--- 12.583. आत्मनो विनिर्गतं बहिर्भूतं जलसमूहं पिबन्तं क्रोडीकुर्वन्तम् । ---- सकलजलविश्रामभूमिमिति भावः ।
तदुक्तम् - 'पयसामर्णव इव' । जलनिवहं किंभूतम् । मुखरा: शब्दायमाना ये घना मेघास्तैर्विप्रकीर्णमितस्ततो
Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768