Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 753
________________ Prakrit Verses in Sanskrit Works on Poetics 689 60.593. हरयो वानरास्तेषां संक्षोभेण पर्वताहरणोद्योगेनेतस्ततो गत्या तेभ्य: संक्षोभेण वा महेन्द्रप्रभृतीनां शैलानां कम्पो मेदिनीमण्डलस्य च दलनं सर्वमेव जायते । केवलं मलयवनकुसुमानां रज: परागो नोद्धावति नोवं गच्छतीत्यर्थः। तत्र हे तुमाह - कीदृशम् । सदा दुर्दिनेन मेघच्छन्नतया तज्जलसंबन्धादाम् । अतो लघुत्वाभावादित्याशयः। तथा च महतां संभ्रमे महान्त एव खिद्यन्ते लघूनां किमपि नेति ध्वनिः। --- 62.593 Vide SP S. No. (174.77) supra. 67.594. आकृष्यमाण एव रामशर: सागरे पतित इति ज्ञायते । अत्र हेतुमाह - कीदृक् । मुखात् फलान्निर्धावितो बहि:प्रसृत उल्कानिवहो यस्मात् । तथा च शिखानिवहनिर्गमद्वारा समुद्रसंबन्धादाण: सागरे पतित इति प्रतीतिरिति भावः। एवं पतनपूर्वमेव क्षुभितेन जलेन शिष्ट: सारो बलं यस्य । तथा च महाशयस्यापि समुद्रस्य क्षोभोऽस्मादेवेत्यर्थापत्त्यापीति भावः। 68.595. अनन्त: शेष: फणाशयाने मधुमथने वलमाने कृतपार्श्वपरिवर्तने सति गाढभरेण विश्वंभर (श्वभार) गौरवेणोत्तानीकृतं विकटं महान्तं फणप्राग्भारं यत्र गिरौ नियोजयति पतनभयेन यन्मूले न अवस्थापयतीत्यर्थः। किंभूतम् । पादेषु प्रत्यन्तपर्वतेषूच्छलद्रत्नानामुद्योतो यस्मात् तम् । फणस्योत्तानीभावात्। तथा च पादपर्वता अप्यस्यापातालमूला:। अयं च विश्वंभरा विश्वंभरभारेऽप्यनन्तस्यावष्टम्भ इति भावः।।--- 78.597. प्रथमं पूर्वं बन्दीकृत्यानीताभि: सुरसुन्दरीभि: सुचिरं व्याप्य विभीषिककृते जीवितसंशयेऽपि ये रजनीचरा: परिक्षिप्ता जात्यपकर्षेण त्यक्तास्त एव संग्रामाभिमुखनिहता: सन्त: पुनरभिसारितास्तदानीं शौर्यमृत्युना प्राप्त देवत्वात् ताभिर्वृता इत्यर्थः। 82.598. Vide $P S. No. (621.166) supra. 89.599. महीधरसंभ्रमेण गिरिसंक्षोभेण विधुत आन्दोलित: समुद्रो निवर्तते गिरिपतनाभावेन पूर्वावस्थां लभते । किंभूत:। भिन्ना: प्रथमं पर्वतपातेन विशकलिता: पश्चात्तदभावेन घटमानास्तत्रैव यथापूर्वं प्रवृत्ता आवर्ता यत्र । एवमावर्तान्तरे भ्रमन्तस्तत्संस्कारेण घूर्णन्तो भिन्ना: खण्डखण्डीभूता महीधरा यत्र । दैवात्पुनस्तत्र ये पतितास्ते शतखण्डीभूय तत्रैव भ्रमन्तीत्यर्थः। एवं प्रथमं विधुतं गिरिपतनादुच्छलितं पश्चान्निवृत्तं तत्रैव प्रविष्टं सलिलं यत्र तथा । शृखलानुप्रासोऽयम् । 90.599. धरणिधरा वज्रभयं स्मृतवन्त:। पूर्वं वज्रभयेन पलायने समुद्रप्रवेशे वा परस्परसंघट्टावस्थोद्रोधात् । यता समुद्रस्था एव धरणिधरा वज्राभिघातसजातीयागन्तुकपर्वताभिघातादित्यर्थ:। आदिवराहखुरैः प्रेरणानि वसुमती स्मृतवती । कपीनां चरणसंक्रमेण तत्सजातीयदु:खोदयात् । एवं मथनांत्संभ्रममुद्वेगं त्रासं वा समुद्र: स्मृतवान्। तत्समानविमर्दोदयात् । समकमेकदैवेत्यर्थः। प्रस्मृतं विस्मृतम् । अत्र प्रस्मृतं स्मृतवानित्युभयत्र यथायोग्यं विभक्तिलिड्गविपरिणामेनान्वय: कर्तव्यः। सममेव विस्मृतं सममेव स्मृतवन्त इत्यर्थो वा |---

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768