Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 744
________________ 680 Prakrit Verses in Sanskrit Works on Poctics 1483.311.शशिना वनानि प्रकट्यन्ते स्फुटीक्रियन्त इव । किंभूतानि । विटपानामन्तरेण रन्ध्रेण विरलं यथा स्यात्तथा पतिताश्चन्द्रस्य करा येषु । अत एव भिन्नं खण्डितं तम एव, तमसा वा, दुर्दिनं येषु । अत एव स्तोकमल्पं सुखालोकानि । ईषत्करपातात् । आलोकस्तेजश्छटा वा । अत एव छटासंबन्धान्मुग्धं मनोरमं पल्लवं येषां तानि |--- 1545.322. विलासिनीनां सार्थो वेपते श्वासं त्यजति कान्तिं याति, नि:सह: सन् शयनेऽङ्गान्यामुञ्चति त्यजति तन्न . विशिष्य ज्ञायते कि रामाद् भीत उत पक्षान्तरे मदनपरतन्त्र: । वेपनादिकार्याणां . भयमदनोभयसाधारणत्वादिति भाव : । 1549.323. चन्द्रस्यालोकेन दर्शनेन तेजसा वा प्रतिहतो निवारितगमनोत्साहो विलासिनीनामभिसारिणीनां सार्थ: अभिसरणं न गृह्णाति कर्तव्यतया न स्वीकरोति, न च अलकं संस्थापयति संयमयति नायकनिकटगमनाय प्रसाधनभावेनेत्यर्थः । न च दूतीं पृच्छति कथं गमनं स्यादित्यदिकमित्यर्थः । किं. तु ममावज्ञामवैदग्ध्यमस्वायत्तिं वा किं ज्ञास्यति प्रिय: कथं वा तत्समागम: स्यादिति मूढहृदय: केवलं वेपते मदनागमनेन स चेदन्यमाश्रयेत्, अथ वा मामन्यानुरक्तामवगच्छेत् तदा मया न जीवितव्यमिति भावः । 1647.337. जनकपुत्र्या सीतया त्रिजटाया: स्नेहो वात्सल्यं दया अनुराग: प्रीतिस्तत्पूर्वकस्य भणितस्य फलं. तात्पर्यपर्यवसानं वा दृष्टम् । मत्प्रीत्या यथैवानया कथितं तथैव जातमिति ज्ञातमित्यर्थः । कुत्र सति । मायया जनिते मोहे गतेप्लवगानां समरनिमिसे संनाहस्य रवे संनह्यतां संनह्यतामित्यादिरूपे श्रुते सति । द्वाभ्यां रामसत्तानिश्चयादिति भावः । *34.347. : Vide SK S.No. (164.75) supra. 49.350. ते सह्यं गिरिं प्राप्ताश्च । कीदृशम् । शीकरैराहतं यद् गैरिकादिशिलातलं तत्र निषण्णा अत एव राजिता: शोभिता रागप्राप्तत्वाज्जलदा यत्र तथाभूतम् । निजशीकरण धातूनां पडीभावात्तत्संबन्धेन मेघानां लौहित्यमिति भाव: । एतावता उच्चत्वमुक्तम् । एवम्, निर्झर एव प्रहसितं यत्र तादृशी या दरी सैव मुखं तस्मान्निष्क्रान्तो बकुलमेव मदिरा तदामोदो यत्र तादृशम्, तथा च कंदरारूपमुखान्निर्झरस्वरूपहास्योद्गमसमये बकुलपुष्परूपमदिराणामामोदो निर्याति निरन्तरमित्यर्थः। इति विकटोदरत्वमुक्तम् । अन्यस्यापि हास्यसमये मदिरामोदो निर्यातीति ध्वनिः || 51.350. धनुषि अर्थाद्रामस्य धूमेन कलुषे धूने सति नभस्तलं धूमायते । एवं ज्वलन्नारोहजीवाबन्धो यत्र तथाभूते वनिमयपतञ्जिकारोपणशालिनि सति ज्वलति । तथा रसच्छब्दायमानं शिखरं यस्य तथाभूते सति प्रतिरवेण प्रतिपूर्णा दिशो यत्र तथाभूतं सद्रसति शब्दायते । तथा च त्यक्तव्याग्नेयशरोपकरणत्वेन धनुरप्याग्नेयमिति ततो गगनव्यापिनी धूमधोरणिरुदतिष्ठत । पतञ्जिकाप्याग्नेयीति तदत्थितो वहनियॊमाजिज्वलत्पराटनौ ज्याप्रान्तनिवेशनादुत्तिष्ठन्पाकज: शब्दो विश्वं व्यानश इत्यर्थः ।

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768