Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 743
________________ Prakrit Verses in Sanskrit Works on Poetics 679 1412.301. मिलितानां विभीषणादीनां शत्रुसमागमादेकीभूतानामिन्द्रजित्प्रभृतीनां वा निशाचराणां पुरत: सुवेलमलययारेन्तराले निर्मित: सेतुपथो येन तथाभूते । तदनु प्रेरितानि आन्दोलितानि त्रिकूटस्य सवेलस्य शिखराणि येन तादृशे राघवे । --- कि प्रश्ने विस्मये वा । तव अग्रहणमनादरः । यत्तस्मिन्नप्येवं संभावयसीति भाव: । 'ग्रहणं त्रयमिच्छन्ति ज्ञानमादानमादरम् ।' 1413.301. च पुना रघुनाथं मुक्त्वा केन वान्येन दशवदन: कपिरुद्धत्वात् प्राकारमात्रेणान्तरित: सन् निष्प्रभः कृतः । तथा च रामेणैव कृत इत्यर्थः । कीदृक् । अवरोधजन्यया लज्जयागतै: स्वेदैबिन्दूयमानं बिन्दुभिः पूर्यमाणं मुखं यस्य स तथा । --- 1414.301. हे जानकि, स्नेहेन भणितमक्तम । मे वचनमहं रजनीचरीति मा जगप्सस्व मा गर्हय । अर्थान्तरन्यासमाह - उद्याने गहारामे वनेऽरण्येच लतानां यत् कुसुम सुरभि तदेव गृह्यते । नोद्यानमिति बदरीविभीतकादीनां गृह्यते, न वा वनमिति सुगन्धिपाटलादीनां त्यज्यते । ---- ग्रहणपरिहास्योरुद्यानवनादित्वमुपाधिन प्रयोजक: किं तु सौरभादिरितिवत् प्रकृतेऽपि वचनस्य प्रियत्वं विचार्यतां राक्षसीत्वमप्रयोजकमिति भावः ।। 1415.301. हे सखि, राघवमरणं यद्यलीकं मिथ्या न भवेत्तदा त्वया जीवन्त्या किमु । किं प्रयोजनमित्यर्थः । तर्हि तव मरणमेव श्रेष्ठामिति भाव: । ---- रघुनाथे पुनरनघेऽक्षते जीवति वा तव मरणेन विधुरं दु:खितं मम हृदयं यतः, तत: संप्रति काम्यति । तथा च रामो जीवत्येव, त्वं वृथा नात्मानं व्यापादयेति भावः । 1447.306. पत्युर्विरहे प्रतिकूला मां प्रत्यसंमुखी सीता संप्रति पत्यावुपगते सति कथं संमुखहृदया भविष्यति । अर्थान्तरन्यासमाह-कमलिनी इतरथाप्यन्यथाप्यनुदितेऽपि दिनकरे शशिनं नेच्छति किं पुनर्दृष्टे सति । ---- अत्र कमलिनीप्राया सीता, शशिप्रायो रावणः, सूर्यप्रायो राम: ।। 1448.306. शशिकरा: पादपानां छाया: (कर्माणि) ग्रहीतुं --- नाशयितुमित्यर्थः । न शक्नुवन्ति वृक्षतले तासामतिघनत्वात् । किन्तु अनुबध्नन्ति वेष्टयन्ति । किंभूताश्छाया: । बहलेऽपि तमोनिवहे निर्वाह्य पृथक्कृत्य सत्यापितं रूपं यासां ता: । ग्राह्यत्वेन स्थिरीकृतरूपा इत्यर्थ: । ---- शशिकरा: --- तमोनिवहमुन्मूल्य तत: पृथक्कृत्यापि छायां वृक्षतलमाश्रितां ग्रहीतुम् (नाशयितुम्) अपारयन्त: परितो वेष्टयन्तीत्यर्थः । • 1474.310. यावत् सन्ध्या गच्छति तावदेव तमालवत् कृष्णं तम: कर्तबहुलं सन्ध्यारागं काञ्चनकटकमिव प्रतिप्रेर्य अवपात्य स्थितम् । क इव । हृतकर्दमस्य सुरगजेन्द्रस्य निघर्षों गात्रघर्षणस्थानमिव । सोऽपि गात्रसंबद्ध-कर्दमसंबन्धात्कृष्ण:, कण्ड्रयनादिविधिना गिरिकटकं भक्त्वा तिष्ठतीति साम्यम् । सुरगजगात्रीयत्वेन महत्त्वमप्युक्तम् । --- 1475.310. सर्वत्र समतया स्थितमपि तिमिरमीदृशं दृश्यते । कीदृशम् । आसन्ने निकटके प्रविरलं स्तोकव्यवधानं बहलं निकटापेक्षया बहुलं दूरे घनम्, तदपेक्षयापि निबिडम् । अत एव अवभग्नो दृष्टिप्रसरो यत्र विषयाणामग्रहात् । सर्वत्रासन्नादिषु भग्नदृष्टिप्रसरमिति वा ।

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768