Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 740
________________ 676 Prakrit Verses in Sanskrit Works on Poetics दुःखप्रकाशनं यत्रेति मूढपरिदेवितमनक्षरपरिदेवितं जातम् । चेष्टयैव परिदेवनं चकारेत्यर्थ: । तचेष्टामाह - किंभूतम् । किमेतदिति कृत्वा किमेतदित्यभिलप्य गगने दिक्षु च सममेकदैव शून्ये मनोवैकल्येन विषयाग्राहके सति परि सर्वतोभावेन चूर्णिते अक्षिणी यत्र |--- 1390.296. त्वां कदाचिदपि द्रक्ष्यामीपि प्रत्याशया तव विरहे मया कथमपि जीवितं धृतम् । तदेष मृतस्त्वं दृष्टोऽसि । अत: फलिता अपि मनोरथा मम न पूर्यन्ते । त्वदर्शनं जातमिती फलिता:, मृतो दृष्टोऽसीति न पूर्यन्ते । संभाषणाद्यभावात् ।--- 1391.296. पृथिवी, राजलक्ष्मी:, अहं च तव तिस्रः पल्य:, तत्र त्वद्विगमे पृथिव्याः पतिर्भविष्यति । य एव राजा भवेत् स एव तस्या पतिरित्याशय: । तथा बहुषु पुरुषविशेषेषु चञ्चला राजश्री:, अत: सापि राज्ञो लक्ष्मीरिति पृथिव्यनुगामिनी राजानमेव यास्यति । तावदित्यवधारणे । ममैवकथं नि:सामान्यमेतदुभयापेक्षयासाधारणमिदं वैधव्यमुपस्थितम् । तथा चासत्यौ ते भवत्पारोक्ष्यमेवेच्छत: । कुलस्त्रिया मम परं गतिरन्या नास्तीति मया मर्तव्यमेवेति भावः । 1392.297. आपात उपक्रम एव भयंकरम् । दु:खमित्यर्थः । --- निर्वहणं तु पर्यवसानं तु दारुणं न भवतीति विज्ञायते । यद्-हेतोर्महिलानां बीभत्सं स्त्रीणां निन्दाकरं तवावसानं मरणं मया दृष्टम् । न केवलं दृष्टम्, अपि तु सोढं च । मरणरूपतदनुरूपव्यापाराभावात् ।--- 1393.297. हे नाथ, मयासह्यापि राक्षसवसतिस्त्वदर्शनप्रत्याशया सोढा । तत्रापि तवेदृशमयोग्यमवसानं च दृष्टम् । एतत्ततोऽप्यशक्यमिति भाव: । अद्याप्येतद्दर्शनोत्तरमपि वचनीयेन वाच्यतया हतं मम हृदयं धूमायत एव संतापेन मोहान्धकाराविष्टं सदुःखमेवानुभवति, न तु प्रज्वलति । तथा च ज्वलनपूर्वकालीना धूमायमानावस्थेति ज्वलिष्यत्यवश्यम् । किन्तु राक्षसवासागमनकाल एव ज्वलितुं योग्यमवसानदर्शनेऽपि न ज्वलतीति लोकानामपवादेन परास्तमित्यहमधन्येति भावः । .1394.297. तव विश्लेष: सोढः, तथा च प्रथमं तदेवाशक्यम् । तदुपरि यथा सखीभिः सह स्थीयते तथा रजनीचरीभिः समं व्युषितमिति ततोऽप्यशक्यमित्येतद् द्वयं त्वां द्रष्टुं कृतमिति तदाभवदभविष्यत् । यदीदानीमपि त्वद्विपर्ययज्ञानानन्तरमपि जीवितं विगलद् व्यगलिष्यत् ।--- 1395.297. तत: पुनरश्रुमार्जनानन्तरं पुनस्तच्छिरो दृष्ट्वा त्रिजटायां गते उन्मुखे लोचने यस्यास्तथाभूतया तया मामापृच्छस्व संवद मरणकृतोद्यमां मामनुजानीहीति दीनं शोच्यं सकरुणं वा हास्यं कृतं बाष्पेण गलितत्वान्नि:सारे अक्षिणी यत्र तद्यथा स्यादेवम् । किंभूतया । मरण एव एकस्मिन्नेको वा रसो यस्यास्तादृश्या । तथा च राक्षसीमध्ये मरणमिति दैन्यम्, मृत्वा हठादेव रामो द्रष्टव्य इति हास्यम् । यद्वा लूनशिरोदर्शनोत्तरमियत्कालमेव जीवितास्मीत्यात्मनिन्दावशाद् दीनविहसितमिति भाव: । 1396.297. हे त्रिजटे, प्रथमं रामविरहे सोढे सत्यनन्तरं दारुणहृदयेन प्रतीष्टेऽङ्गीकृते वैधव्ये च सति गतो य: स्नेहस्तेन लघुकमनादरणीयम् । यत्र विरह एव मर्तुमुचितं तत्र वैधव्यमपि सोढवतीत्यहो नि:स्नेहा दारुणा चेति

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768