________________
668
Prakrit Verses in Sanskrit Works on Poetics
विरलास्त्रिचतुरा एव । भवन्तस्तूक्तिमपेक्षमाणा: कापुरुषा इति भावः । अर्थान्तरं न्यस्यति - अज्ञात: कुसुमनिर्गमो येषां तथाविधा ये द्रमा: फलं ददति तेऽपि वनस्पतय: स्तोका एव । तथा च द्रुमप्राया: सत्पुरुषा: कुसुमनिर्गमप्रायाणि वचनानि फलप्रायं कार्यमिति ।
181.79. स विभीषण: सुग्रीवेण मारुतेर्हनमुत्तो लब्धो य: प्रत्ययो रावणात् पृथग्भूत: स्वीयोऽयमिति ।
विश्वासस्तेनागतहर्ष यथा स्यादेवमुपगूढ आलिङ्गितः | शत्रुगृहभेदेन कार्यसिद्धिनिर्णयादिति भावः । उर:स्थलवनमालायां मिथो वपुर्मिलनान्मृदिता: पीडिता मधुकरा यत्र तद्यथा स्यादित्यपि क्रियाविशेषणम् । विभीषण: किंभूतः । व्यवसितेनागमनेन निवेदितोऽर्थ: प्रयोजनं येन ।
182.79. जनकसुता पतिता च । भूमावित्यर्थात् । केवलं मोहमेव गतेति न, किं तु पतितापीति चार्थ: । किंभूता ।
हस्तेन शिथिलितो निरोधो यत्र तथाभूत:, पश्चाद्विरहेण करतलयन्त्रणापसारितरुधिरत्वेन वा पाण्डुर: सन् समुच्छ्वसन् यन्त्रितमांसोत्फुल्लतया पुष्टिं व्रजन् कपोलो यस्यास्तथाविधा । ज्ञानदशायां करावरुद्ध: कपोलस्थितो मूर्छायां कर: शिथिलीभूय बहि:स्खलित इत्यर्थः । एवम् - प्रेरितेन वामपाइँन पतितत्वाद् वामभुजयन्त्रणया तिर्यगुत्थापितेन वामपयोधरेण विषमोन्नत: स्वानुसारेण तिर्यगुत्थापितो दक्षिण: स्तनो यस्याः । तथा च कुचयो : काठिन्यमुक्तम् ।
194.82. [ पद्यमिदं रामदासविरचिते रामसेतुप्रदीपे न संगृहीतम् ।
सेतुतत्त्वचन्द्रिकाख्यव्याख्यायां तु समाविष्टमुपलभ्यते - जनकतनयापयोधरस्पर्शान्महार्धितेन करतलेन विमुक्ता राघवशरा दशकन्धरस्य शरीरे पतिता: पतन्तो वा पुलकं जनयन्ति । अत्र तादृशकरण मुक्तत्वमेव हेतु: । पद्यमिदं साहसाङ्क-कुलनाथाभ्यां न धृतम् । ]
199.83. तं प्रसिद्ध दशमुखवधं शृणुत । -- प्रसिद्धार्थकत्वेन तच्छब्दस्य न यच्छब्दापेक्षा । तं कथंभूतम् ।
त्रिदशबन्दीनां मोक्ष: परित्यागो यस्मात् । समस्तत्रैलोक्यस्य हृदयस्थशल्यानामुद्धारश्च यस्मात् । अनुरागस्य प्रेम्णश्चिह्न ज्ञापकं च यत् । सीतां प्रति रामानुरागस्य रावणवधावधिकत्वात् । सीताया दु:खस्य क्षयश्च येन तथाभूतम् । रावणवधानन्तरं बन्दीकृतदेवस्त्रीणां परित्यागो लोकानां च राबणभयेनाप्रकाशनाद् हृदयस्थानां च शल्यानामुद्धार: सीताया अशोकवनिकानिवासादि- केशनिवृत्तिरित्यर्थः । अथ च दशमुखवधनामानं ग्रन्थं शृणुत । -- किंभूतम् । त्रिदशबन्दीनां मोक्षो वर्णितो यत्र तथाभूतम् । अनुरागचिह्नमित्यनुरागपदचिहनितम् । प्रत्याश्वासकान्तस्कन्धकेऽनुरागपदसत्त्वादिति भावः ।।
200.83. काव्यानामालापा येन न हरन्ति न मनोहारिणो भवन्ति किं तत् । अपि तु न किमपीत्यर्थः । तदाह -
यत: काव्याद्विज्ञानं विशिष्टज्ञानं वर्धते । तथा यश: संभाव्यते । गुणा विवेकादयोऽय॑न्ते । सुपुरुषस्य रामादेश्वरितं श्रूयते । अत एतस्योपादेयत्वम् । -- परिवर्घात इति वा । 'अर्जेविढप्पि:' इति विढप्पिरादेश: ।
213.86. समुद्रदर्शनत्रस्ता: कपिनिवहा: सहसा समुद्रं दृष्ट्वैव लिखिताश्चित्रन्यस्ता इव स्थिताः । त्रासाद्भुतयोरुत्पत्त्या
जडीमावादिति भाव: | ----- आक्षिप्तानि ---- पारावारदर्शनायोत्तोलितानि अथापसृतानि अहो