________________
Prakrit Verses in Sanskrit Works on Poetics
667 160.74. गगनरूपे समुद्रे तारारूपमुक्ताप्रकार: शोभते । कीदृक् । विशुद्धः शुभ्र: किरणो यस्य तथा । एवं रजनिरेव
वेला तीरं तत्र लग्न: । शर्वरीसमयलग्न इत्यपि । एवं स्फुटं यथा स्यात्तथा विघटिता ये मेघास्त एव शुक्तिसंपुटास्तेभ्यो मुक्त इतस्तत: प्रकीर्णः । शरदि मेघानां नानाखण्डत्वेन शुभ्रतया च विघटितशुक्तिसाम्यम् । अन्यत्रापि समुद्रे शुक्तिमुक्ता विशुद्धचाकचस्या मुक्तास्तीरलग्ना दीप्यन्त इति सर्वत्र रूपकम् ।
162.75. नभस्तलं शोभते । कीदृशमिव । पितामहस्य ब्रह्मण उत्पत्तिपङ्कजमिव ।
नभः कीदृक् । केसरनिवह इव रविकरा यत्र तथाभूतम् । एवं दलसहस्राणीव सभङ्गिधवलाभ्राणि तैः परिगतं व्याप्तम् । एवं मधुमथनस्य नारायणस्य दर्शनयोग्यम् । उत्तानसुप्तस्य तस्योत्थाने सति तत्रैव दृष्टिपातसंभावनासत्त्वात् । --- पितामहस्योत्पत्तिर्यत्रेति पङ्कजविशेषणमिति व्याचक्षते 'साधर्म्यमुपमा भेदे इत्युपमालंकारः ।
164.75. दिशो निजकस्थानमिव प्रतिगता व्याघुट्य पूर्वस्थानं गता इवेत्युत्प्रेक्षा ।
किंभूता: । नभ एव पादपस्तस्य शाखा इति रूपकम् । पुन: किंभूता: । धुता इतस्ततो गता मेघा एव मधुकरा याभ्यस्ता:। एवं घनसमयो वर्षर्तुस्तेनाकृष्टा अथावनता अथ विमुक्ताः । तथा च वर्षफ़रुपक्रमे दिशो मेघसंधारेणाकृष्टा निकटवर्तिन्य इव, मध्ये गगनदिग्व्यापिमेघबाहुल्येनावनता अधो वर्तुलीकृता इव, वर्षान्ते मेघापगमेन विमुक्ता: प्रसारिण्य इव ज्ञाता इति भाव: । शरदि तथाभूतमेघसंबन्धस्त्यक्त इति तात्पर्यम् ।
165.75 इन्द्रधनुरेव सरसं तात्कालिकं नखपदमिति रूपकम् । प्रम्लायति प्रकर्षण म्लानिमाप्नोति । विगलतीति
यावत् । सरसत्वेन लौहित्यान्नखपदस्येन्द्रधनुस्तौल्यम् । कीदृशम् । दिक्षु पीनो य: पयोधरो मेघस्तत्र लग्नम् । पुन: कीदृक् । प्रवसता गच्छता जलदकालेन वितीर्णं दत्तम् । सौभाग्यस्य सौन्दर्यस्य प्रथमं चिह्न लक्षणम् । तथा च प्रावृषि दिशां मांसलमेघलग्नेन्द्रधनुषा सौन्दर्यमासीत् । अथ शरदि यथा यथा मेघापगमस्तथा तथा तदविनाभावेन तदप्यपगतमिति भाव : |--- वर्षासु गृहे स्थित्वा शरदि प्रवासीभवता नायकेन प्रियास्तने सतत - स्मरणाय नखक्षतं कृत्वा गम्यत इति कामशास्त्रम् ।
173.77. यथा धैर्य-तिमिनिवह - नदीस्रोतोरत्नानि वहन्तं तथैव जलसमूहपर्वतलोक-तरङ्ग
परोपकारित्वादि-गुरुक-गुण-शतान्यपि वहन्तमित्यर्थः । तिमिवत्संचारित्वलाभाय सपक्षपदं पर्वते । धैर्यादीनामच्छत्वमहत्त्व - प्रौढि - दैर्घ्य - निर्मलत्वैर्यथासंख्यं जलसमूहादिभिस्तौल्यमिति सहोपमालंकार : ।
174.77. अस्य रामस्य धैर्येण समं निशायामा गलन्ति । धैर्यमपि व्यतिक्रामति निशायामा अपि व्यतिक्रामन्तीत्यर्थः ।
एवमनिष्ठिता अस्थिरा उपदेशा बन्धुजनवचांसि हृदयेन समं गलन्ति । हृदयोपदेशयोः स्थैर्य न भवतीत्यर्थः। उत्साहेन सह भुजौ गलत: | ---- बाष्पेण संम उल्लापा गलन्ति । अश्रूणि गलन्ति प्रलापा अपि मुखादहिवन्तीत्यर्थ: । सहोक्तिरलंकारः ।
178.78. कार्यालापानालपितकार्याणि । --- तथा चाभण्यमाना उक्तिमनपेक्ष्य ये कार्याणि घटयन्ति ते सत्पुरुषा