________________
666
Prakrit Verses in Sanskrit Works on Poetics
ड 14.45. यस्य ['तुङ्गतटेभ्य: सशब्दं पतद्भिः निर्झरः मुखरान्' - कृष्णविप्र] 'कृष्णमणिमयानां
गण्डशैलानामर्धान्तान्सेवमानानामाश्रितानां त्रिदशवधूनामनुरागो मनोऽभिनवेश: शिथिलत्वं न प्राप्त:' इत्यग्रिमस्कन्धके योजना ।
25.47. घनसमय: कीदृश: । व्यवसाय: सीताप्रत्युद्धारहेतुर्व्यापार: स एव रविः । असंपद्यमानत्वेन संतापकत्वात् ।
तस्य प्रदोषस्तिरोधानकाल: । एवं रोष एव गजेन्द्र : । परोपमर्दकत्वात् । तस्य दृढ-शृङ्खलया प्रतिबन्धो बन्धनं तद्रूप: । प्रसरणप्रतिबन्धकत्वात् । तथा जय एव केसरी । प्रतिपक्षशून्यत्वात् । तस्य पञ्जरो बन्धनस्थानम् । अवरोधकत्वादित्यर्थ: । रूपकमत्रालंकारः ।
34.49. व्यवसायरविप्रदोष: | Vide SP S.No. (25.47) supra.
82.57. अथ रामावस्थामाह - अभिज्ञानं संदेशो मणिरूप: । दयितं प्रीतिपात्रम् । दयिताया इति वा । तद्राघवेण
यस्मिन्नप्यनेन न निवेशितं तेनाप्यनेन सीतया परि सर्वतोभावेन मृष्टेनेव न तु स्पृष्टमात्रेण निरन्तरं रोमाञ्चौ व्यूढः । तथा च यथा सीतापरिमृष्टेनाङ्गेन रोमाञ्चो ध्रियते तथा मणिस्पृष्टेनाप्यनेन विशेषत ऊढ: । सीतासम्बन्धिमणिसंबन्धादिति भावः । तथा च नित्यसंनिहितसीतास्पर्शापेक्षया विरहकालीनसीतापरम्परासंबन्धोऽप्याधिक इति तात्पर्यम् ।
85.58. अपिर्विरोधाभाससूचनाय । तथा च लक्ष्म्याश्चिरनिर्गतत्वादसंबन्धेन प्रसज्यमानो विरोध: । श्रीशब्दश्लेषण
शोभया अमुच्यमानत्वेन परिहियते ।--- उभयसाधारणीमुपमामाह - कया कमिव । ज्योत्स्नया मृगाङ्कमिव । कीर्त्या सुपुरुषमिव । प्रभया रविमिव । महानद्या शैलमिव । [श्रिया चिरनिर्गतयाप्युमुच्यमानमद्यापि तथैव रत्नसंपत्तेरविच्छेददर्शनादिति भाव :'। - सेतुतत्त्वचन्द्रिका (२-१०, पृ. ३५)]
157.74. अयं बालो दुर्दमशत्रुसंमुखगमनाय सोत्साहो न वेति प्रथममतिसंनिहितसंबन्धिन: प्रियतमस्य लक्ष्मणस्य
मुखमस्य रामस्य दृष्टि: शोभेव लग्ना । यथा शोभा लग्ना तथेत्यर्थ : । तथा च लक्ष्मणमुखं तदानीमतिसश्रीकमासीदिति भाव: । एवमचिरादेवामुष्योपकार: कृत: स तूरसि वर्तते न वेति निरूपणाय तत्पश्चादुदासीनप्रियतरस्य सुग्रीवस्य विकटं विस्तारशालिहृदयं यथा वनमाला लग्ना तथेयमपीत्यर्थः । रक्तनीलश्वेताकारत्वान्मालासाम्यम् । सुग्रीवस्य माला स्वाभाविकमलंकरणमिति प्रसिद्धिः । अयमिदानीमेव लङ्कात: समागतो राक्षसबलाबलज्ञो मद्गमने साध्यवसायो न वेति जिज्ञासया शरीरचेष्टया क्षोभाक्षोभनिरूपणाय तत्पश्चात्प्रियं पवनसुतं यथा समुद्रलङ्घनादिकीर्तिर्लग्ना तथेयमपि । एत एव संप्रति सहायास्तदमीषां चेष्टा कीदृशीति ततोऽपि पश्चात्परिवारतापन्नानि वानरबलानि । यथा तत्क्षण एव सुग्रीवद्वारा कृता लड़कागमनाज्ञा लग्ना तथेयमपि दृष्टिलग्नेति सर्वत्र . सहोपमा । --- परमार्थतस्तु पर्वोक्ततत्तदभिप्रायेणैव तत्र तत्र लग्ना दृष्टिर्यथासंख्यं शोभादित्वेनोपत्प्रेक्षिता । तथा हि प्रथमं लक्ष्मणमखं रामदृष्टि: शोभेव लग्ना । दृष्टिरेव तत्र शोभाभूदित्यर्थः । एवं सुग्रीवहृदयं वनमालेव पवनतनयं कीर्तिरिवाज्ञेव बलानीत्युन्नयाम: ।