Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology
________________
669
Prakrit Verses in Sanskrit Works on Poetics
कष्टमलङ्घनीयोऽसाविति मामेव लङ्घनाय यदि प्रभुः प्रेरयेत्तदानर्थ आपतेदित्यप्रतिभयापसृतान्यधोगतानि सन्ति वेपमानानि लङ्घने समुद्रपतनमलङ्घने सुग्रीवस्ताडयेदित्युभयथापि संकटमिति कम्पमानानि शरीराणि येषां ते । एवं निरायते समुद्रदिदृक्षया विस्फारिते पश्चादाश्चर्येण नि:स्पन्दे लोचने येषां ते । तथा च किंकर्तव्यविमूढा आसन्निति भावः ।
504.144. यस्य हसितैकदेशा ज्योत्स्नीषु रात्रिषु नभो विलगन्ति वियद्व्यापका भवन्ति । अन्तरान्तरा विच्छिद्य
विच्छिद्योत्पत्त्या खण्डा इत्युक्तमिति वा । कथंभूताः । स्फुट: प्रतिरवो येषां ते । एवं दिक्तलेषु प्रतिस्खलिता घनीभूय प्रतिवृत्ता: । पुन: कथंभूता इव । ज्योत्स्नाया: कल्लोला इव । श्वेतत्वात् । शिर:स्थितचन्द्रकलाया वा । अन्येऽपि कल्लोला: पर्वतादिषु स्खलिता: सन्त ऊर्ध्व दिशश्च व्याप्नुवन्ति प्रतिशब्दहेतुशालिनश्च भवन्ति । एतेन हसितस्य व्यापकत्वमुक्तम् । ज्योत्स्नाकल्लोला इवेति सहोपमा वा ।
यथा ते दिक्तलस्खलिता इव नभो विलगन्ति तथैतेऽपीत्युत्प्रेक्षामूलम् । 507.145. Vide SP S.No. (213.86) supra. 508.145. उन्मीलन्त्येवोन्मेषसमकालमेवास्य दृष्टिर्धनुषि निषण्णा । कीदृशी ।
निद्रायाः शेषेण ---- अवनताभ्यामक्षिपत्राभ्यां स्खलिता पृथग्भूता । तथा च निद्राजन्यालस्येन किंचिन्मिलदप्यक्षिपत्रद्वयं विजित्य प्रबोधसमकालमेव निखिलविषयपरित्यागेन धनुषि लग्नेति वीररसोत्कर्ष: सूचित : । किंभूते । गुरूकोऽन्यानिर्वाह्योऽवलगितो रणभरो यत्र । एवम् - दृष्ट: समरो यस्येति सर्वत्र जयशीलत्वादध्यवसाय उक्त: ।
510.146. चिरं व्याप्य प्रवृत्तानि वहद्रूपाणीत्याभ्यासिकवेगवत्त्वम् । समुद्रवद्गभीराणीत्यसाध्यसेतुकत्वम् ।
एवंभूतान्यपि नदीस्रोतांसि प्रतिपथं विपरीतमार्ग पश्चान्नीयन्ते उपायेन नेतुं शक्यन्ते । सत्पुरुषा: पुनरनिष्पादितप्रेषणा: सन्त: परावर्तयितुं न शक्यन्ते । प्रेषणमीश्वराज्ञा । तथा च जलस्याचेतनस्य स्वाभाविकक्रमत: परावृत्तिरुपायसाध्या न त्वजडानां चेतनानामिति राजाज्ञानिष्पत्तिरेव पुरुषार्थ इति भावः ।
511.146. सुभटानामुत्साहो वीररसस्थायी विषमे संकटे स्खलित: परैः प्रतिहत: सन्नधिकमुद्धावति वर्धते । कीदृक् ।
अव्यवच्छिन्नः सन्प्रसृत: । परैरनाक्रान्तत्वात् । एवं स्फुरिता शूरस्य छाया कान्तिर्यस्मात् । शूराणामेवोत्साह उत्पद्यत इति भाव: । दृष्टान्तयति - यथा महानदीनां स्रोतोऽव्यवच्छिन्नप्रसृतं स्फुरिता सूरस्य सूर्यस्य च्छाया प्रतिबिम्बो यत्र तथाभूतं सत् पर्वतादिनिम्नोन्नतप्रदेशे स्खलितमधिकमुद्धावति, ऊर्ध्वमुत्तिष्ठति । तथा वीराणामप्युत्साहो यथा यथा विषमभूमिलाभस्तथा तथा प्रौढिमालम्बत इति तात्पर्यम् । 'छाया स्यादातपाभावे प्रतिबिम्बेऽर्कयोषिति ।' इति ।
512.146. समुद्रं पश्यतां वानराणां तत्काल एव लोचननिवहो हनूमति सगौरवं पतित: । साधुस्त्वं धन्यजन्मा माता
च ते पुत्रप्रसूर्भवतीत्याशयादिति भाव: । लोचननिवहः कीदृक् । चटुलोऽपि मर्कटस्वाभाव्याचञ्चलोऽपि तदानीमपूर्व: प्राथमिको यो विस्मयरसो हनूमत्कृतसमुद्रलङ्घनोत्थस्तेन स्तिमितो निश्चल:
Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768