Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 735
________________ Prakrit Verses in Sanskrit Works on Poetics 671 तेनावहित्था सूचिता । 'भयगौरवलज्जादेहर्षाद्याकारगुप्तिरवहित्था । व्यापारान्तरशक्त्यन्यथा (भा) वभाषणविलोकनादिकरी ॥' 567.156. प्रत्यूषरतं प्रदोषरताद् दूरेणाभ्यधिकं प्राथमिकादपि प्रदोषरताद रसनीयतयातिश्लाघनीयं जातमित्यर्थः । तदेवाह - कीदृक् । विश्रम्भेण प्रत्यासत्या वर्धितो रस: संभोगरूप: शृङ्गारो मन:प्रीतिर्वा यत्र । द्वितीयरते विश्रम्भेण लज्जाविराहादुत्कण्ठाया यथावदभिव्यज्जनात् । न तु प्रथमरत इति भाव: । अतिरागेणात्यनुबन्धेनात्यासङ्गेन वा स्खलितापगता शेषेणैकदेशेन संस्थिता रसना यत्र । शेषसंस्थिता अपि रसना अतिरागेण स्खलिता इत्यर्थः । --- एवं च विगलितमदत्वेन हेतुना निपुणं चतुरं ज्ञानपूर्वकतयालिड्गनचुम्बनादिव्यापारवैशिष्ट्यविशिष्टमित्यर्थः । प्रथमरते तु मदसत्त्वेन रसविशेषमग्नचित्ततया तादृशनैपुण्याभावादिति भाव : | --- 619.165. स्त्रीणां पति / प्रिय - प्राप्त्या प्रदोषो निशाद्यभागो दत्तफलो जात: । असति पति / प्रिय - समागमे दूतीगतागतेन तचर्चया सति च तद्दर्शनादिनापूर्वरसोत्पत्तेरिति भाव : । तदुत्तरमालिड्गनचुम्बनादिना रतिसुखेन निशापि दत्तफला । जातेत्यर्थात् । आनीता विरहादुत्कण्ठा येन । अत एव अनिर्विण्णोऽनिर्वाण उद्दीप्तो वा मन्मथो यत्र तथाभूत: सन् प्रत्यूष: परं गलति गच्छति । प्रियविश्लेषशङ्कया रसविच्छेदकत्वेन हृदये न लगतीत्यर्थ: । 621.166. 'नु'शब्दो वितर्के । चन्द्रोद्योतेन मद: किं वर्धितप्रसरो वृत्त: । मदेन किं चन्द्रातपोवर्धितप्रसरः । द्वाभ्यामपि ताभ्यां चन्द्रोद्योतमदाभ्यां मदन: किं वर्धितप्रसरः । मदनेन च द्वावपि तौ चन्द्रोद्योतमदौ किमतिभूमिमुत्कर्षकाष्ठां नीतौ । --- 942.219. युवतीभितीजन: ससंभ्रमं सादरमध्याप्यते शिक्ष्यते । किं कृत्वा । ईषद्रचितं विशेषकं यत्र तन्मुखं वलितं साचीकृतम् । अत एव विषमं तिर्यग् यथा स्यादेवं सखीजनहस्तात् समाक्षिप्याकृष्य । तथा च प्रियसमीपगमनाय मुखमण्डनं कारयन्तीभि: प्रसाधकसखीहस्तान्मुखमाकृष्य तिर्यक् कृत्वा प्रथमप्रेषित एव-दूतीजन: पुनराहय 'तदैव स्फुरितं किञ्चित् प्रियस्त्वया मताचिकमित्थं वक्तव्यो मदागमनंच हठान्न वक्तव्यम् इत्यादिकमतिनिभृतमुपदिश्यत इति वैदग्ध्यं सूचितम् । 'तमालपत्रं तिलकं मुखबिन्दुर्विशेषकम् । 943.219. चन्द्रस्यालोकेन दर्शनेन तेजसा वा प्रतिहतो निवारितगमनोत्साहो विलासिनीनामभिसारिणीनां सार्थ: अभिसरणं न गृह्णाति कर्तव्यतया न स्वीकरोति न च अलकं संस्थापयति संयमयति नायकनिकटगमनाय प्रसाधनभावेनेत्यर्थः । न च दूतीं पृच्छति कथं गमनं स्यादित्यादिकमित्यर्थ: । किं तु ममावज्ञामवैदग्ध्यमस्वायत्तिं वा किं ज्ञास्यति प्रिय: कथं वा तत्समागम: स्यादिति मूढहृदय: केवलं वेपते मदनागमनेन स चेदन्यमाश्रयेत्, अथवा मामन्यानुरक्तामवगच्छेत् तदा मया न जीवितव्यमिति भावः । 949.220. प्रियस्य पार्थात् समीपानिवृत्त आगतो दूतीजन: संमुखमग्रतो एव अलीकमपि 'स न स्वयमेष्यति न वा त्वां नेष्यति, किन्तु तवापराधानुक्त्वा परस्यामनुरज्यति' इत्यादि मिथ्यापि यद् भणति

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768