Book Title: Prakrit Verses in Sanskrit Works on Poetics Part 02
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 729
________________ Appendix I Extracts from Rămadăsa's Commentary on Setubandha About 200 verses from Setubandha are cited in their works on poetics by Alaskārikas — notably by Bhoja and Pandita Visvešvara. Some of these verses are undoubtedly mere repetitions. The text of Setubandha is, as a rule, regarded as difficult and in some cases obscure and almost unintelligible. The following extracts will enable the readers to understand the text much better: 7.7. अहं समुद्रमथनपूर्वं पारिजातशून्यं स्वर्गम् । कौस्तुभेन लक्ष्म्या च --- रहितं मधुमथनस्योरः । मुग्धो बाल: । तथा च चन्द्रखण्डशून्यं च हरजटाया: प्राग्भारं --- समूह वा स्मरामि । तथा च पारिजाताद्युत्पादकसमुद्रमर्थनसंभ्रमेऽप्यहं स्थित इति भावः । 5.36. (5.11-Bom. Edn.) उत्खात उत्पाटितो दुमो यस्य तं शैलमिव । शैले सामान्यQमस्योच्छेदादित: पारिजातस्याकर्षणात् । हिमेन हतानां कमलानामाकर: सर इव लक्ष्म्या विमुक्तं त्यक्तम् । लक्ष्मीपदस्य श्लिष्टत्वेन सरसि शोभाया विगमादितस्तु हरिप्रियाया उद्धृतत्वात् । पीता मदिरा यस्य तादृशं चषकमिव । मदिराशून्यमित्यर्थः । चषके मदिराया: पीतत्वादितस्तूद्धारात् । बहुल : कृष्णपक्षस्तत्प्रदोषमिव मुग्धचन्द्रेण विरहितं शून्यम् । तत्संध्याकाले मनोहरचन्द्रानुदयादितस्तु बालचन्द्रस्योत्थापनात् तुल्यत्वम् । तथा च पारिजातादीनामुत्पत्तिस्थानमित्यर्थ : 13.45. अथ सुवेलप्राप्त्यनन्तरं प्लवङ्गा:सुवेलं प्रेक्षन्ते । कोटिकोटिश: पर्वता उत्पाटिता:, ईदृश: कोऽपि न दृष्ट इति विस्मयादिति भाव: । -- आक्रमण इति कर्तरि ल्युट् । तथा च सकलजगदाक्रमणकर्ता मूलेन पातालस्य, . ' मध्येन मर्त्यस्य मस्तकेन स्वर्गस्याक्रमणात् । तथाभूतश्चासौ वर्धितमहाशिखरश्चेति कर्मधारयः । एवं निष्ठापिता नाशिता दक्षिणदिग्येन तिरोधायकत्वात् । एवं शेषा या पूर्वाद्या दिशस्तन्मुखेन तत्संमुखीभूय प्रधावितं --- इवेत्युत्प्रेक्षाव्यञ्जनयारोहणपरिणाहाभ्यां विस्तार उक्त । 5.44; 59.54. हे जनाः, मधुमथनं विष्णुं नमत नमस्कुरुत । तथा चाहमपि तं प्रत्यस्मि प्रणत इत्याक्षेपलभ्यम् । मधुं मथ्नातीति मधुमथनस्तम् --- कीदृशं तम् । अवर्धितश्चासौ तुड्गश्चत्यवर्धिततुङ्गस्तम् । अत्रावर्धितस्योर्ध्वदेशावच्छिन्नतारूपतुगताया असंभवेनावभासमानो परमेश्वरस्याजन्यतयेतरकर्तकवर्धितत्वाभावेन परिहियते । तथा च विरोधवदाभासते न तु विरोध इति विरोधाभासनामायमलङ्कारः । --- तथा हि पुनः कीदृशम् । अप्रसारितश्चासौ विस्तृतश्चेति तम् । एवमनवनतश्चासौ गभीरश्चेति तथाविधम् । तथा च तुङ्गत्वविस्तृतत्वगभीरत्वरूपविशेषणत्रयेणोर्ध्वमध्याध:सकलदेशव्यापकत्वमुक्तम् । --- अप्रलघुको महांश्चासौ परिश्लक्ष्ण: कृशश्चेति तथा । -- अज्ञात: परमार्थस्तत्त्वं यस्य तथाविधश्चासौ प्रकटश्चेति तथा ।

Loading...

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768