Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 432
________________ पद्मपुराणम् । अष्टादशं पर्व। संध्याभ्रपर्वते रम्ये मुनेः कैवल्यमुद्गतं । अनंगवीचिसंज्ञस्य देवेंद्रक्षोभकारणं ॥ ११२ ॥ वंदित्वा तं प्रदीपेन रात्रवागच्छतया मया । रुदितध्वनिरश्रावि स्त्रैणस्तंत्रीस्वनोपमः ।। ११३ ।। अढौकत तमुद्देशं गिरेः प्रस्थं समुन्नतं । पर्यकनाम्नि दृष्टा च गुहायामंजना मया ॥ ११४ ॥ निर्वासकारणं चास्या विज्ञाय विनिवेदितं । मया प्राश्वासिता बाला रुदती शोकविहला ११५ तस्यामसूत सा पुत्रमन्वितं लक्षणैः शुभैः । यस्य भासा गुहा सासीत्सुवर्णेनैव निर्मिता॥११६॥ तोषं च परमं प्राप्तः श्रुत्वा तां जातपुत्रिका । ततस्तत इति क्षिप्रमपृच्छच्च समीरणः ।। ११७ ॥ अवोचत्स ततस्तस्याः सुतोऽसौ चारुचेष्टितः । विमाने स्थाप्यमानः सन् पतितः शैलगहरे ॥ अत्रांतरे पुनः प्राप्तो विषादं पवनंजयः । हाकारमुखरः सार्द्ध तया खेचरसेनया ॥ ११९ ॥ प्रतिभानुः पुनश्चोचे मागाः शोकं ततः शृणु यद्वृत्तं तत्समस्तं ते वायोर्दुःखं हरिष्यति॥१२०॥ ततो हाकारशब्देन मुखरीकृतदिग्मुखः । अवतीर्यानघं बालमैक्षिष्महि नगांतरे ॥ १२१ ॥ चूर्णितश्च ततः शैलस्तेनासौ पतनात्तदा । श्रीशैल इति तेनासावस्माभिर्विस्मितैःस्तुतः ॥१२२।। वसंतामालया साकं ततः पुत्रेण संयुता । विमानमंजनारोप्य मया नीता निजं पुरं ॥ १२३ ॥ ततो हनूरुहाभिख्ये पुरे संवर्धितः शिशुः । हनूमानिति तेनास्य द्वितीयं नाम निर्मितं ॥१२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522