________________
पद्मपुराणम् ।
अष्टादशं पर्व। संध्याभ्रपर्वते रम्ये मुनेः कैवल्यमुद्गतं । अनंगवीचिसंज्ञस्य देवेंद्रक्षोभकारणं ॥ ११२ ॥ वंदित्वा तं प्रदीपेन रात्रवागच्छतया मया । रुदितध्वनिरश्रावि स्त्रैणस्तंत्रीस्वनोपमः ।। ११३ ।। अढौकत तमुद्देशं गिरेः प्रस्थं समुन्नतं । पर्यकनाम्नि दृष्टा च गुहायामंजना मया ॥ ११४ ॥ निर्वासकारणं चास्या विज्ञाय विनिवेदितं । मया प्राश्वासिता बाला रुदती शोकविहला ११५ तस्यामसूत सा पुत्रमन्वितं लक्षणैः शुभैः । यस्य भासा गुहा सासीत्सुवर्णेनैव निर्मिता॥११६॥ तोषं च परमं प्राप्तः श्रुत्वा तां जातपुत्रिका । ततस्तत इति क्षिप्रमपृच्छच्च समीरणः ।। ११७ ॥ अवोचत्स ततस्तस्याः सुतोऽसौ चारुचेष्टितः । विमाने स्थाप्यमानः सन् पतितः शैलगहरे ॥ अत्रांतरे पुनः प्राप्तो विषादं पवनंजयः । हाकारमुखरः सार्द्ध तया खेचरसेनया ॥ ११९ ॥ प्रतिभानुः पुनश्चोचे मागाः शोकं ततः शृणु यद्वृत्तं तत्समस्तं ते वायोर्दुःखं हरिष्यति॥१२०॥ ततो हाकारशब्देन मुखरीकृतदिग्मुखः । अवतीर्यानघं बालमैक्षिष्महि नगांतरे ॥ १२१ ॥ चूर्णितश्च ततः शैलस्तेनासौ पतनात्तदा । श्रीशैल इति तेनासावस्माभिर्विस्मितैःस्तुतः ॥१२२।। वसंतामालया साकं ततः पुत्रेण संयुता । विमानमंजनारोप्य मया नीता निजं पुरं ॥ १२३ ॥ ततो हनूरुहाभिख्ये पुरे संवर्धितः शिशुः । हनूमानिति तेनास्य द्वितीयं नाम निर्मितं ॥१२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org