________________
पद्मपुराणम् ।
४२२
अष्टादशं पर्व । उपायेभ्यो हि सर्वेभ्यो वशीकरणवस्तुनि । कामिनीसंगमुज्झित्वा नापरं विद्यते परं ॥ ९९ ॥ अथेक्षांचक्रिरे वायु विस्रस्तांगं नभश्वराः । पुस्तकर्मसमाकारं वाचंयमतया स्थितं ॥ १०॥ यथार्हमुपचारं ते चक्रुरस्य तथाप्यसौ । न प्रयच्छति चिंतास्थः प्रतिवाक्यं मुनिर्यथा ॥१०१॥ पुत्रप्रीत्या तमाघ्राय पितरौ मस्तके मुहुः । आलिंग्य च प्रमोदेन वाष्पस्थगितलोचनौ ॥१०२॥ ऊचतुर्वत्स संत्यज्य पितरौ कथमीदृशं । चेष्टितं क्रियते त्वं हि विनीतानां धुरिस्थितः ॥१०३।। वरशय्योचितः कायस्त्वयाद्य विजने वने । संवाहितः कथं भीमे रात्रौ पादपगह्वरे ॥ १०४ ॥ इति संभाष्यमाणोऽपि नासौ वाचमुदाहरत् । मरणे निश्चितोऽस्मीति संज्ञयैव न्यवेदयत् १०५ व्रतमेतन्मयोपात्तं यदप्राप्य महेंद्रजां । न मुंजे न वदामीति तत्कथं भज्यतेधुना ॥१०६ ॥ आस्तां तावत्प्रियासत्यव्रतं संरक्षता मया । गुरू प्रशासितावेतौ कथमित्याकुलोऽभवत् ॥१०७।। ततस्तं नतमूर्धानं मौनव्रतसमाश्रितं । मरणे निश्चितं ज्ञात्वा जग्मुर्विद्याधराः शुचं ॥ १०८॥ समेतास्तत्पितृभ्यां ते विलेपुर्दीनमानसाः । संस्पृशंतः करैरस्य शरीरं स्वेदधारिभिः ॥१०९ ॥ ततः स्मितमुखोऽवोचत्पतिसूर्यो नभश्वरान् । माभूत विक्लवा वायुमेष वो भाषयाम्यहं ॥११०॥ पवनं च परिष्वज्य जगादानुक्रमान्वितं । कुमार श्रृणु यद्वृत्तं कथयामि तवाखिलं ।। १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org