________________
पद्मपुराणम् ।
४२१
अष्टादशं पर्व। मनोहरं समासह्य खगयानं मनोजवं । नभोमूर्धानमुत्पत्य वीक्षमाणःक्षितिं ययौ ॥ ८६ ॥ प्रतिभानुसमेतास्ते वैजयानभश्चराः । त्रैकूटाश्च प्रयत्नेन निरैक्षंत महीतलं ॥ ८७ ॥ अथ भूतरवाटव्यां ददृशे ते महाद्विपं । प्रावृषेण्यघनोदारसंघाताकारधारिणां ॥ ८८ ॥ अयं स कालमेघाख्यपवनद्विप इत्यमी । अभ्यसासिपुरेनं च पूर्वदृष्टेरनेकशः ॥ ८९ ।। अयमेष स हस्तीति जगदुश्च परस्परं । सर्वे विद्याधरा हृष्टा समं कृतमहारवः ॥ ९ ॥ नीलांजनगिरिच्छायः कुंदराशिसितद्विजः । युक्तप्रमाणहस्तोयं हस्ती यत्रावतिष्ठते ॥ ९१ ॥ पवनंजयवीरेण देशेत्र गतसंशयं । भवितव्यमयं तस्य मित्रवत्पार्श्वगोचरः ॥ ९२ ॥ वदंत इति ते याताः समीपं तस्य दंतिनः । निरंकुशतया तस्य मनाग्वित्रस्तमानसाः ॥ ९३ ॥ रवेण महता तेषां चुक्षोभ स महागजः । दुर्निवारश्चलद्भीमसमस्तांगो महाजवः ॥ ९४ ।। मदक्लिनकपोलोसौ स्तब्धकर्णः सुगर्जितः । दिशं पश्यति यामेव तत्र क्षुभ्यंति खेचराः ॥१५॥ दृष्ट्वा जनसमूहं तं स्वामिरक्षणतत्परः । पवनंजयसामीप्यं न जहाति स वारणः ॥ ९६ ॥ मंडलेन भ्रमत्यस्य सलील भमयत्करं । दर्शनेवैव चंडेन त्रासयन् सर्वखेचरान् ।। ९७ ॥ करिणीभिरथावृत्य द्विपं यत्नेन खेचराः । वशीकृत्य तमुद्देशमवतीर्णाः समुत्सुका ॥ ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org