________________
કરેલું
पद्मपुराणम्।
अष्टादश पर्व। सर्वे चाहायिता तेन खगा द्विश्रेणिवासिनः । प्रीत्या ते तु समायाताः परिवारसमन्विताः ७३ खे पंथानमाश्चित्य भास्वद्विविधवाहनाः । अन्वेष्यंस्ते महीं यत्नाद्गहरन्यस्तलोचना ॥ ७४ ॥ प्रतिभानुरुदंतं तं ज्ञात्वा प्रह्लाददूततः । उद्धृहतं महाशोकमंजनायै न्यवेदयत् ॥ ७५ ।। प्रथमादपि सा दुःखात्ततो दुःखेन भूयसा । अश्रुधौतमुखा चक्रे करणं परिदेवनं ॥ ७६ ॥ हा नाथ ! प्राणसर्वस्व मम मानसबंधन । क मां त्यक्त्वा प्रयातोऽसि क्लेशसंततिभागिनीं ॥७७॥ किंवाद्यापि न त कोपं विमुंचसि पुरातनं । अदृश्यत्वं यदेतोसि सर्वविद्याभृतामपि ॥ ७८ ॥ अप्येकं प्रति वाक्यं मे नाथ यच्छामृतोपमं । नत्वापन्नहितोन्मुक्ता महात्मानो भवंति हि ॥७९॥ इयंतं धारिताः कालं भवदर्शनकांक्षया । प्राणा मयाधुना कार्य किमेतैः पापकर्मभिः ॥ ८ ॥ समागममवाक्ष्यामि प्रियेणेति समं कृता । कथं मनोरथा भग्ना देवेनाफलिता मम ॥ ८१ ॥ कृते मे मंदभाग्याया प्रियोवस्थांगतो भवेत् । तामिदं हृदयं क्रूरं यां समाशंकते मुहुः ॥ ८२ ॥ वसंतमालिके पश्य किमिदं वर्तते मम । असह्यविरहांगारपल्यंकपरिवर्तनं ॥ ८३॥ वसंतमालया चोक्ता देवि मैवममंगलं । व्यरंटीः सर्वथासौ ते भर्ता गोचरमेष्यति ॥ ८४॥ एष कल्याणि ते नाथ मानयाम्यचिरादिति । प्रतिसूर्यः समाश्वास्या कृच्छेणांजनसुंदरीं ॥८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org