________________
पद्मपुराणम्।
अष्टादशं पर्व । सोऽवोचदंब तेनैव प्रेषितोऽहं प्रयत्नतः । न मे केनापि भावेन दत्तं स्थातुमुपांतिके ॥ ६॥ उवाच सा गतः क्वासौ सोऽवोचद्यत्र सांजना । क्वांजनेति च पृष्टेन को वेत्तीति निवेदितं ६१ अपरीक्षणशीलानां सहसा कार्यकारिणां । पश्चात्तापो भवत्येव जनानां प्राणधारिणां ॥ ६२॥ कांतां यदि न पश्यामि मृत्युमेति ततो ध्रुवं । प्रतिज्ञैवं कृतानेन त्वत्पुत्रेण सुनिश्चिता ॥ ६३ ॥ इति श्रुत्वा विलापं सा चकारेति सुदुस्सहा । वेष्टिता स्त्रीसमूहेन स्रवल्लोचनवारिणा ॥ ६४ ॥ अज्ञातसत्यया कष्टं पापया कि मया कृतं । येन पुत्रः परिप्राप्तो जीवनस्य तु संशयं ॥६५॥ क्रूरसाधनधारिण्या वक्रमानसया मया । असमीक्षितकारिण्या मंदया किमनुष्ठितं ॥ ६६ ॥ मुक्तं वायुकुमारेण पुरमेतन शोभते । विजयाईगिरीशो वा सेना वा रक्षसां विभोः ॥ ६७ ।। दुष्करो रावणस्यापि संधिर्येन रणे कृतः । कस्तस्य मम पुत्रस्य सदृशोऽत्र नरो भुवि ॥ ६८ ॥ हा वत्स ! विनयाधार ! गुरुपूजनतत्पर ! जगत्सुंदर विख्यातगुण क्वासि गतो मम ॥ ६९ ॥ भवदुःखाग्निसंतप्तां मातरं मातृवत्सल ! । प्रतिवाक्यप्रदानेन कुरु शोकविवर्जितां ॥ ७० ॥ विलापमपि कुर्वाणां ताडयंती मुखे भृशं । सांत्वयन्वनितां कृच्छात्प्रह्लादः साश्रुलोचनः ॥७१॥ सर्वबंधुजनाकीर्णः कृत्वा प्रहसितं पुरः । निर्यातः स्वपुरात्पुत्रमुलब्धुं समुत्सुकः ॥ ७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org