________________
पद्मपुराणम् ।
४१८
अष्टादशं पर्व। तस्या वार्तासु मुग्धेन तेन पृष्टा नगा अपि । विवेकेन हि निर्युक्ता जायते दुःखिनो जनाः ४७ अथ भूतरवाभिख्यं वनं प्राप्य गजादसौ । अवतीय क्षणं स्थित्वा ध्यायन्मुनिरिव प्रियां ॥४८॥ अनादरेण निक्षिप्य धरण्यामस्त्रकंटकं । घनपादपशाखाग्रतिरोहितमहातपः ॥४९॥ जगाद गजनाथं तं विनयेन पुरःस्थितं । गिरा मधुरयात्यर्थ श्रमेण गुरुणान्वितः ॥ ५० ॥ बजेदानी गजेंद्र त्वं भव स्वच्छंदविभ्रमः । तस्या वातासु मुग्धेन क्षमस्व च पराभवं ॥५१॥ तीरेऽस्या सरितः शष्यं शल्लकीनां च पल्लवान् । चरन विहर यूथेन करिणीनां समन्वितः॥५२॥ इत्युक्तः सुकृतज्ञोऽसौ स्वामिवात्सल्यदक्षिणः । न मुमोचांतिकं तस्य शोकार्तस्य सुबंधुवत् ॥५३॥ लप्स्ये यदि न तां रामामभिरामामहं ततः । यास्याम्यत्र वने मृत्युमिति वायुर्विनिश्चितः॥५४॥ पियागतमनस्कस्य तस्य रात्रिरभूदने । शरच्चतुष्टयोदारा नानासंकल्पसंकुला ॥ ५५ ॥ एवं तावदिदं वृत्तं श्रणु श्रेणिक ते परं । कथयामि गते तस्मिन्यत्पितृम्यां विचेष्टितं ॥ ५६ ॥ पवनंजयवृत्तांते तद्विप्रेण निवेदिते । समस्ता बांधवा वायोः परमं शोकमागता ॥ ५७ ॥ अथ केतुमती पुत्रशोकेनाभ्याहृता भृशं । ऊचे प्रहसितं बाष्पधाराजनितदुर्दिना ॥ ५८ ॥ युक्तं प्रहसितेदं ते कर्तुमीदृग्विचेष्टितं । मम पुत्रं परित्यज्य यदेकाकी समागतः ॥ ५९॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org