________________
पद्मपुराणम् ।
४१७
अष्टादशं पर्व ।
शोकातपपरिम्लाना पद्मकोमलविग्रहा । व गता मे भवेत्कांता वहंती हृदयेन मां ॥ ३४ ॥ वैधुर्यारण्य मध्यस्था विरहानलदीपिका । वराकी कांदिशीकासौ दिशं स्यात्कामुपाश्रिता ।। ३५ ।। सत्यार्जवमेतासौ गर्भगौरवधारिणी । वसंतमालया त्यक्ता भवेत्किं नु महावने ॥ ३६ ॥ शोकांधनयना किं नु व्रजंती विषमे पथि । पतिता स्याज्जरत्कूपे क्षुधिताजगरान्विते ॥ ३७ ॥ किं नु गर्भपरिक्लिष्टा श्वापदानां च भीषणं । श्रुत्वा शब्दं परित्रस्ता प्राणान्मुक्तवती भवेत् ||३८|| अहो तृष्णार्दिता शुष्कतालकंठा जलोज्झिते । विंध्यारण्ये विमुक्ता स्यात्प्राणैः प्राणसमा मम ३९ किंवा मंदाकिनीं मुग्धा विविधग्राहसंकुलां । अवतीर्णा भवेद् व्यूढ़ा वारिणा तीव्ररंहसा ||४०|| दर्भसूचीविनिर्भिन्नचरणश्रुतशोणिता । अशक्ता पदमप्येकं गंतुं किं तु मृता भवेत् ॥ ४१ ॥ किंवा दुष्टेन केनापि नीता स्यात् खविचारिणा । कष्टं वार्तापि नो तस्याः केनचिन्मे न विद्यते ४२ किंवा दुःखाच्च्युते गर्भे निर्वेदं परमागता । आर्यिकाणां पदं प्राप्ता भवेद्धर्मानुसेविनी ॥ ४३ ॥ चितयन्निति पर्यट्य धरणीं मतिविह्वलः । ददर्श न यदा कांतां सर्वेद्रियमनोहरां ॥ ४४ ॥ तदा पश्यञ्जगत्कृष्णं शून्यं विरहदीपितः । विनिश्चितमसौ चेतश्चकार मरणं प्रति ।। ४५ ।। न शैलेषु न वृक्षेषु न रम्यासु नदीष्वभूत् । धृतिरस्य विप्रयुक्तस्य तया सर्वस्वभूतया || ४६ ॥
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org