________________
पद्मपुराणम् ।
४१६
अष्टादशं पर्व। पुरस्सरेण तेनासौ प्रीतियुक्तेन चेतसा । निजं प्रवेशितः स्थानं पौरैः सादरमीक्षितः ॥ २१ ॥ विवेश भवनं चास्य कांतादर्शनलालसः । संकथाभिर्मुहूर्त च तस्थौ संवर्गणां भजन ॥ २२ ॥ ततस्तत्राप्यसौ कांतामपश्यद्विरहातुरः । अपृच्छद्धालिकां कांचिदंतर्भवनगोचरं ॥ २३ ॥ अयि बालेन जानासि मत्प्रिया वर्ततेजना । सावोचदेव नास्त्यत्र त्वत्प्रियेत्यसुखावहं ॥ २४ ॥ वज्रेणेव ततस्तस्य तेन वाक्येन चूर्णितं । हृदयं पूरितौ कर्णौ तप्तक्षारेंबुनेव च ॥ २५ ॥ वियुक्त इव जीवेन क्षणं चाभूत्सुनिश्चलः । शोकपालेयसंपर्कविच्छायमुखपंकजः ॥ २६ ॥ निर्गत्यासौ ततस्तस्साच्छद्मना श्वशुरात्पुरात् । बभ्राम धरणी वार्तामधिगंतुं सुयोषितः ॥२७॥ ज्ञात्वा वायुकुमारं च वायुनेवातुरीकृतं । ऊचे प्रहसितः सत्वं तदुःखादभिदुःखितः ॥ २८ ॥ किं वयस्य ! विषण्णोऽसि कुरु चित्तमनाकुलं । द्रक्ष्यसे दयिता सा ते कियद्वेदं महीतलं ॥२९॥ सोऽवोचद्गच्छ गच्छ त्वं सखे रविपुरं द्रुतं । इदं ज्ञापय वृत्तांत गुरूणां मदनुष्ठितं ॥ ३० ॥ अहं पुनरसंप्राप्य दयितां क्षितिसुंदरीं । न मन्ये जीवितं तसात्पर्यटाम्यखिलां भुवं ॥ ३१ ॥ इत्युक्तस्तेन दुःखेन विमुच्य कथमप्यमुं । आदित्यनगरी दीनः क्षिप्रं प्रहसितो ययौ ॥ ३२ ॥ पवनोऽपि समारुह्य नागमंबरगोचरं । विचरन् धरणी सर्वामेवं चिंतामुपागतः ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org