________________
पद्मपुराणम् ।
४१५
अष्टादशं पर्व। विवेश च कृतार्थादि सन्मानो मानिनां वरः । वाग्भिमंगलसाराभिः स्वजनैरभिनंदिनः ॥८॥ विधाय प्रणति तत्र गुरुणामितरैर्जनैः । नमस्कृतः क्षणं तस्थौ वार्ताभिवरमंडपे ॥९॥ ततः प्रासादमारुक्षदंजनायाः समुन्मनाः । युक्तः प्रहसितेनैव पूर्वभावनयान्वितः ॥१०॥ रिक्तकं तस्य तं दृष्वा प्रासादं प्राणतुल्यया । चेतनामुक्तदेहाभं पपातेव मनः क्षणात् ॥ ११ ॥ ऊचे प्रहसितं चैव वयस्य किमिदं भवेत् । अंजना सुंदरी नात्र दृश्यते पुष्करेक्षणा ॥ १२ ॥ गृहमेतत्तया शून्यं वनं मे प्रतिभासते । आकाशमेव वा क्षिप्रं तस्या वार्ताधिगम्यतां ॥ १३ ॥ आप्तवात्परिज्ञाय वार्ता प्रहसितोऽवदत् । यथावत्सकलां तस्मै हृदये क्षोदकारिणीं ॥ १४ ॥ वंचितः स्वजनं सोऽथ समं मित्रेण तत्क्षणं । महेंद्रनगरं तेन प्रवृत्तो गंतुमुन्मनाः ॥ १५ ॥ तस्यासन्नभुवं प्राप्य मित्रमेवमभाषत । मन्यमानोंकसंप्राप्तां दयितां प्रमदान्वितः ॥१६॥ पश्य पश्य पुरस्यास्य वयस्य रमणीयतां । अंजना सुंदरी यत्र वर्तते चारुविभ्रमा ॥ १७ ॥ कैलासकूटसंकाशा यत्र प्रासादपंक्तयः । उद्यानपादपैर्गुप्ता प्रावृषेण्यघनपभैः ॥ १८ ॥ ब्रुवनेवं स संप्राप्तः पुरं पुरुषसत्तमः । सुहृदाद्वैतचित्तेन विहितप्रतिभाषणः ॥ १९ ॥ ततो जनौषतः श्रुत्वा संप्राप्तं पवनंजयं । अर्घादिनोपचारेण श्वसुरोऽस्य समागमत् ।। २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org