SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४१४ अष्टादश पर्व । खड्गलतापि चारुवनितासुमृदुभुजलता । प्राणिषु पूर्वजन्मजनितात्सुचरितबलतः ॥४०५॥ इत्यवगम्य दुःखकुशलाद्विरमतदुरिता । त्सज्जत सारशर्म चतुरे जिनवरचरिते ॥ एष तपत्यो परिवृढं जगदनवरतं । व्याधिसहस्ररश्मिनिकरो ननु जननरविः || ४०६ || इत्यार्षे रविषेणाचार्यप्रोक्ते पद्म-चरिते हनूमत्संभवाभिधानं नाम सप्तदश पर्व । अथाष्टादशं पर्व | इदं ते कथितं जन्म श्रीशैलस्य महात्मनः । श्रृणु संप्रति वृत्तांतं वायोर्मगधमंडन ॥ १ ॥ वायुना वायुनेवाशु गत्वाभ्यासं खगेशिनः । लब्धादेशेन संयुध्य नानाशस्त्राकुले रणे ॥ २ ॥ कृतयुद्धश्चिरं खिन्नो जलकांतोपवर्तितः । जातस्तस्य निमानोऽसौ पुष्कलः खरदूषणः ॥ ३ ॥ भूयश्च जलकांतेन निनाय्य खरदूषणः । कृत्वा संध्यमहं प्राप्य परमं राक्षसाधिपात् ॥ ४ ॥ अनुज्ञातो वहत्कांतां हृदयेन त्वरान्वितः । जगामाभिजनं स्थानं महासामंतमध्यगः ॥ ५ ॥ प्रविष्टश्च पुरं पौरैरभियातः सुमंगलैः । ध्वजतोरणमालाभिर्भासुराभिर्विभूषितं ॥ ६॥ जगाम च निजं वेश्म दृष्टो वातायनस्थितैः । मुक्तप्रस्तुतकर्तव्यैः पौरनारी कदंबकैः ॥ ७ ॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy