________________
४१३
सप्तदशं पर्व ।
मंदमारुतसंपृक्तरक्तोत्पलवनप्रभं । कुर्वाणं सकलं पिंगं तेजसा गिरिगह्वरं ॥ ३९३ ॥ ततोऽनघशरीरं तं जननी पृथुविस्मया । गृहीत्वा शिरसि घ्रात्वा चक्रे वक्षःस्थलस्थितं ।। ३९४ || प्रतिसूर्यस्ततोऽवोचदहो चित्रमिदं परं । वज्रेणैव यदेतेन शिलाजातं विचूर्णितं ।। ३९५ ।। अर्भकस्य सतोप्येषा शक्तिः सुस्वरातिगा । यौवनस्थस्य किं वाच्यं चरमेयं ध्रुवं तनुः ॥ ३९६ ॥ इति ज्ञात्वा परीत्य त्रिः शिरः पाणिसरोरुहः । सहांगनासमूहेन चकारास्या नमस्कृतिं ।। ३९७ ॥ असौ तस्य वरस्त्रीभिर्नेत्रभाभिः कृतस्मितं । सितासितारुणां भोजमालाभिरिव पूजितं ॥ ३९८ ॥ सपुत्र यानमारोप्य भागिनेयीं ततोऽगमत् । प्रतिसूर्यो निजं स्थानं ध्वजतोरणभूषितं ।। ३९९ ।। ततः प्रत्युद्गतः पौरैर्नानामंगलधारिभिः । स विवेश पुरं तूर्यनादव्याप्तनभस्तलं । ४०० ॥ तत्र जन्मोत्सवस्तस्य महान् विद्याधरैः कृतः । आखंडलसमुत्पत्तौ गीर्वाणैस्त्रिदशैर्यथा ॥ ४०९ ॥ जन्म लेभे यतः शैले शैलं चाचूर्णयत्ततः । श्रीशैल इति नामास्य चक्रे मात्रा ससूर्यया ४०२ पुरे हरु यस्माज्जातः संस्कारमाप्तवान् । हनूमानिति तेनागात्प्रसिद्धिं स महीतले ।। ४०३ ।। सर्वलोकमनोनेत्रमहोत्सववपुः क्रियः । तस्मिन् सुरकुमाराभः पुरे रेमे सुकांतिमान् ॥ ४०४ ॥ संभवतीह भूधररिपुः पविरपि कुसुमं । वह्निरपदुपादशिशिरं पृथु कमलवनं ॥
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org