________________
४१२
पद्मपुराणम् ।
सप्तदशं पर्व ।
एवमुक्त्वा विधायक पृथुकं जिनवंदना | कृत्वा स्थानपतिं देवं क्षमयित्वा पुनः पुनः ॥ ३८० ॥ निष्कांस गुहावासात्स्वजनौघसमन्विता । वनश्रीरिव जाता च विमानस्यांतिकं स्थिता३८१ Tata किकिणीजाले प्रकणत्पवनेरितैः । सनिर्झरमिथोदारैर्मुक्ताहारैः सुनिर्मलैः || ३८२ ।। ललल्लंबूषकं काचकदलीवनराजितं । दिवाकरकर स्पर्शस्फुरत्कनकबुद्बुदं ।। ३८३ || नानारत्नकरा संगजाताने कसुरायुधं । वैजयंतीशतैर्नानावर्णैः कल्पतरूपमं ॥ ३८४ ॥ चित्ररत्नविनिर्माणं नानारत्नसमाचितं । दिव्यं परिवृतं स्वर्गलोकेनैव समं ततः ।। ३८५ ।। earth पृथुको मातुरात्कौतुकसस्मितः । उत्पत्य प्रविविक्षुः सन्नपप्तगिरिगहरे || ३८६ ।। हाहाकारं ततः कृत्वा लोकस्तस्य समातृकः । स गतोऽनुपदं ज्ञातुमुहंतमिति विद्दलः || ३८७ ॥ चकार विप्रलापं च सुदीनमिममंजना । तिरश्वामपि कुर्वाणा करुणाकोमलं मनः ॥ ३८८ ॥ हा पुत्र किमिदं वृत्तं दैवेन किमनुष्ठितं । प्रदर्श्य रत्न संपूर्ण निधानं हरता पुनः ॥ ३८९ ॥ पत्यसंगमदुःखेन ग्रस्तायां मे भवानभूत् । जीवितालंबनं छिन्नं कथं तदपि कर्मणा ।। ३९० ।। ततः सहस्रशः खंडैर्नीयतां सुमहास्वनं । शिलायां पातवेगेन ददशैवं सुखस्थितं ।। ३९१ ।। अंतरास्यकृतांगुष्ठं क्रीडतं स्मितशोभितं । उत्तानं प्रचलत्पाणिचरणं शुभविग्रहं ।। ३९२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org